अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 30
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
उत्था॑पय॒ सीद॑तो बु॒ध्न ए॑नान॒द्भिरा॒त्मान॑म॒भि सं स्पृ॑शन्ताम्। अमा॑सि॒ पात्रै॑रुद॒कं यदे॒तन्मि॒तास्त॑ण्डु॒लाः प्र॒दिशो॒ यदी॒माः ॥
स्वर सहित पद पाठउत् । स्था॒प॒य॒ । सीद॑त: । बु॒ध्ने । ए॒ना॒न् । अ॒त्ऽभि: । आ॒त्मान॑म् । अ॒भि । सम् ।स्पृ॒श॒न्ता॒म् । अमा॑सि । पात्रै॑: । उ॒द॒कम् । यत् । ए॒तत् । मि॒ता: । त॒ण्डु॒ला: । प्र॒ऽदिश॑: । यदि॑ । इ॒मा: ॥३.३०॥
स्वर रहित मन्त्र
उत्थापय सीदतो बुध्न एनानद्भिरात्मानमभि सं स्पृशन्ताम्। अमासि पात्रैरुदकं यदेतन्मितास्तण्डुलाः प्रदिशो यदीमाः ॥
स्वर रहित पद पाठउत् । स्थापय । सीदत: । बुध्ने । एनान् । अत्ऽभि: । आत्मानम् । अभि । सम् ।स्पृशन्ताम् । अमासि । पात्रै: । उदकम् । यत् । एतत् । मिता: । तण्डुला: । प्रऽदिश: । यदि । इमा: ॥३.३०॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 30
विषय - परस्पर उन्नति करने का उपदेश।
पदार्थ -
[हे वीर !] (बुध्ने) तले पर (सीदतः) बैठे हुए (एनान्) इन [चावलों] को (उत् स्थापय) ऊँचा उठा, वे [चावल] (अद्भिः) जल के साथ (आत्मानम्) अपने को (अभि) सब प्रकार (सं स्पृशन्ताम्) मिला देवें। (पात्रैः) पात्रों [चमचे आदि] से, (यत्) जो कुछ (एतत्) यह (उदकम्) जल है, [उसे] (अमासि) मैंने नाप लिया है, (यदि) यदि (तण्डुलाः) चावल (इमाः प्रदिशः) इन दिशाओं में [बटलोही के भीतर] (मिताः) नापे गये हैं ॥३०॥
भावार्थ - जैसे रसोइया बटलोही के पेंदे में बैठे हुए चावलों को उठाकर जल से मिलाता है, और बार-बार जल और चावलों को नाप कर ठीक-ठीक पकाता है, वैसे ही मनुष्य यथावत् उपाय से दूसरों को उन्नत करके योग्य बनावें ॥३०॥
टिप्पणी -
३०−(उत्थापय) ऊर्ध्वं धारय (सीदतः) उपविशतः (बुध्ने) मूले (एनान्) तण्डुलान् (अद्भिः) जलैः (आत्मानम्) (अभि) सर्वतः (संस्पृशन्ताम्) संयोजयन्तु (अमासि) माङ् माने−लुङ्। अहं परिमितवानस्मि (पात्रैः) चमसादिभिः (उदकम्) जलम् (यत्) (एतत्) (मिताः) परिमिताः (तण्डुलाः) (प्रदिशः) प्रकृष्टा दिशाः, प्रतीति शेषः (यदि) (इमाः) उखायां वर्तमानाः ॥