अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 48
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
न किल्बि॑ष॒मत्र॒ नाधा॒रो अस्ति॒ न यन्मि॒त्रैः स॒मम॑मान॒ एति॑। अनू॑नं॒ पात्रं॒ निहि॑तं न ए॒तत्प॒क्तारं॑ प॒क्वः पुन॒रा वि॑शाति ॥
स्वर सहित पद पाठन । किल्बि॑षम् । अत्र॑ । न । आ॒ऽधा॒र: । अस्ति॑ । न । यत् । मि॒त्रै: । स॒म्ऽअम॑मान: । एति॑ । अनू॑नम् । पात्र॑म् । निऽहि॑तम् । न॒: । ए॒तत्। प॒क्तार॑म् । प॒क्व: । पुन॑: । आ । वि॒शा॒ति॒ ॥३.४८॥
स्वर रहित मन्त्र
न किल्बिषमत्र नाधारो अस्ति न यन्मित्रैः समममान एति। अनूनं पात्रं निहितं न एतत्पक्तारं पक्वः पुनरा विशाति ॥
स्वर रहित पद पाठन । किल्बिषम् । अत्र । न । आऽधार: । अस्ति । न । यत् । मित्रै: । सम्ऽअममान: । एति । अनूनम् । पात्रम् । निऽहितम् । न: । एतत्। पक्तारम् । पक्व: । पुन: । आ । विशाति ॥३.४८॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 48
विषय - परस्पर उन्नति करने का उपदेश।
पदार्थ -
(अत्र) इस [हमारे समाज] में (न) न तो (किल्बिषम्) कोई दोष, (न) न (आधारः) गिर पड़ने का व्यवहार (अस्ति) है और (न) न [वह कर्म है] (यत्) जिससे (मित्रैः) मित्रों के साथ (समममानः) बहुत पीड़ा देनेवाला व्यवहार (एति) चलता है। (एतत्) यह (नः) हमारा (पात्रम्) पात्र [हृदय] (अनूनम्) बिना रीता [परिपूर्ण] (निहितम्) रक्खा हुआ है, (पक्वः) परिपक्व [दृढ़ बोध] (पक्तारम्) दृढ़ करनेवाले पुरुष में (पुनः) निश्चय करके (आ विशाति) प्रवेश करेगा ॥४८॥
भावार्थ - जो मनुष्य अपने और अपने सम्बन्धियों के दोषों को हटाकर सब को उत्तम गुणी बनाता है, तब उनके हृदयों में परिपक्व ज्ञान प्रवेश करता है ॥४८॥
टिप्पणी -
४८−(न) निषेधे (किल्विषम्) अ० ५।१९।५। किल पीडायाम्−टिषच् बुक् च। अपराधः (अत्र) समाजे (न) (आधारः) आङ्+धृङ् अवध्वंसने अवस्थाने च−घञ्। संपतनव्यवहारः (अस्ति) (न) (यत्) यस्मात् (मित्रैः) (समममानः) सम्+अम गतौ−पीडने च−चानश्। संपीडको व्यवहारः (एति) गच्छति। वर्तते (अनूनम्) परिपूर्णम् (पात्रम्) रक्षासाधनम्। हृदयम् (निहितम्) स्थापितम् (नः) अस्माकम् (एतत्) प्रत्यक्षम् (पक्तारम्) दृढीकर्तारम् (पक्वः) दृढो बोधः (पुनः) अवधारणे (आ विशाति) लेट्। प्रविशेत् ॥