अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 26
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
आ य॑न्ति दि॒वः पृ॑थि॒वीं स॑चन्ते॒ भूम्याः॑ सचन्ते॒ अध्य॒न्तरि॑क्षम्। शु॒द्धाः स॒तीस्ता उ॑ शुम्भन्त ए॒व ता नः॑ स्व॒र्गम॒भि लो॒कं न॑यन्तु ॥
स्वर सहित पद पाठआ । य॒न्ति॒ । दि॒व: । पृ॒थि॒वीम् । स॒च॒न्ते॒ । भूम्या॑: । स॒च॒न्ते॒ । अधि॑ । अ॒न्तरि॑क्षम् । शु॒ध्दा: । स॒ती: । ता: । ऊं॒ इति॑ । शुम्भ॑न्ते । ए॒व । ता: । न॒: । स्व॒:ऽगम् । अ॒भि । लो॒कम् । न॒य॒न्तु॒ ॥३..२६॥
स्वर रहित मन्त्र
आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्यन्तरिक्षम्। शुद्धाः सतीस्ता उ शुम्भन्त एव ता नः स्वर्गमभि लोकं नयन्तु ॥
स्वर रहित पद पाठआ । यन्ति । दिव: । पृथिवीम् । सचन्ते । भूम्या: । सचन्ते । अधि । अन्तरिक्षम् । शुध्दा: । सती: । ता: । ऊं इति । शुम्भन्ते । एव । ता: । न: । स्व:ऽगम् । अभि । लोकम् । नयन्तु ॥३..२६॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 26
विषय - परस्पर उन्नति करने का उपदेश।
पदार्थ -
[वे प्रजाजन−मन्त्र २७] (दिवः) विजय की इच्छा से (पृथिवीम्) प्रख्यात [विद्या] को (आ यन्ति) प्राप्त होते हैं और (सचन्ते) सेवते हैं, (भूम्याः) [अन्तःकरण की] शुद्धि से (अधि) अधिकारपूर्वक (अन्तरिक्षम्) भीतर दीखते हुए [परब्रह्म] को (सचन्ते) सेवते हैं। (ताः) वे शुद्धाः) शुद्ध (सतीः) होकर, (उ) ही [दूसरों को] (एव) भी (शुम्भन्ते) शुद्ध करते हैं, (ताः) वे [प्रजाएँ] (नः) हमको (स्वर्गम्) सुख पहुँचानेवाले (लोकम् अभि) दर्शनीय समाज में (नयन्तु) पहुँचावें ॥२६॥
भावार्थ - विद्वान् स्त्री-पुरुष परमेश्वर को साक्षात् करके आत्मबल बढ़ाते हुए सब को धर्म में प्रवृत्त करके सुखी रक्खें ॥२६॥
टिप्पणी -
२६−(आ यन्ति) आगच्छन्ति (दिवः) विजिगीषासकाशात् (पृथिवीम्) प्रख्यातां विद्याम् (सचन्ते) सेवन्ते (भूम्याः) भू शुद्धौ−मि। योगिनां चित्तावस्थाभेदात्। अन्तःकरणशुद्धेः (सचन्ते) (अधि) अधिकारपूर्वकम् (अन्तरिक्षम्) मध्ये दृश्यमानं परब्रह्म (शुद्धाः) पवित्राचाराः (सतीः) सत्यः (ताः) म० २७। प्रजाः (उ) एव (शुम्भन्ते) शोधयन्ति (एव) निश्चयेन (ताः) (नः) अस्मान् (स्वर्गम्) सुखप्रापकम्, (अभि) प्रति (लोकम्) दर्शनीयं समाजम् (नयन्तु) प्रापयन्तु ॥