अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 2
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
ताव॑द्वां॒ चक्षु॒स्तति॑ वी॒र्याणि॒ ताव॒त्तेज॑स्तति॒धा वाजि॑नानि। अ॒ग्निः शरी॑रं सचते य॒दैधो॑ऽधा प॒क्वान्मि॑थुना॒ सं भ॑वाथः ॥
स्वर सहित पद पाठताव॑त् । वा॒म् । चक्षु॑: । तति॑ । वी॒र्या᳡णि । ताव॑त् । तेज॑: । त॒ति॒ऽधा । वाजि॑नानि । अ॒ग्नि: । शरी॑रम् । स॒च॒ते॒ । य॒दा । एध॑: । अध॑ । प॒क्वात् । मि॒थु॒ना॒ । सम् । भ॒वा॒थ॒: ॥३.२॥
स्वर रहित मन्त्र
तावद्वां चक्षुस्तति वीर्याणि तावत्तेजस्ततिधा वाजिनानि। अग्निः शरीरं सचते यदैधोऽधा पक्वान्मिथुना सं भवाथः ॥
स्वर रहित पद पाठतावत् । वाम् । चक्षु: । तति । वीर्याणि । तावत् । तेज: । ततिऽधा । वाजिनानि । अग्नि: । शरीरम् । सचते । यदा । एध: । अध । पक्वात् । मिथुना । सम् । भवाथ: ॥३.२॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 2
विषय - परस्पर उन्नति करने का उपदेश।
पदार्थ -
(वाम्) तुम दोनों की (तावत्) उतनी [पूर्व कर्म अनुसार] (चक्षुः) दृष्टि है, (तति) उतने (वीर्याणि) वीर कर्म हैं, (तावत्) उतना (तेजः) तेज और (ततिधा) उतने प्रकार से (वाजिनानि) पराक्रम हैं, (यदा) जिस समय में वह [जीव] (शरीरम्) शरीर को (सचते) मिलता है, [जैसे] (अग्निः) अग्नि (एधः) इन्धन को [मिलता है], (अध) सो, (मिथुना) हे तुम दोनों बुद्धिमानों ! (पक्वात्) परिपक्व [ज्ञान] से (सम् भवाथः) शक्तिमान् हो जाओ ॥२॥
भावार्थ - सब स्त्री-पुरुष जन्मसमय पर अपने-अपने पूर्वकृत कर्म के अनुसार उत्तम-उत्तम साधन पाते हैं, जैसे अग्नि इन्धन पाकर प्रज्वलित होता है ॥२॥
टिप्पणी -
२−(तावत्) तत्परिमाणम् (वाम्) युवयोः स्त्रीपुरुषयोः (चक्षुः) दर्शनसामर्थ्यम् (तति) तावन्ति (वीर्याणि) वीरकर्माणि (तावत्) (तेजः) प्रतापः (ततिधा) तावत्प्रकारेण (वाजिनानि) पराक्रमाः (अग्निः) पावको यथा (शरीरम्) देहम् (सचते) संगच्छते प्राणी (यदा) यस्मिन् काले (एधः) इन्धनं यथा (अध) अथ। तदनन्तरम् (पक्वात्) दृढाज् ज्ञानात् (मिथुना) क्षुधिपिशिमिथिभ्यः कित्। उ० ३।५५। मिथ वधे मेधायां च−उनन्। हे मेधाविनौ (सं भवाथः) लेटि रूपम्। युवां शक्तौ भवतम् ॥