अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 43
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
अ॒ग्नी रक्ष॑स्तपतु॒ यद्विदे॑वं क्र॒व्यात्पि॑शा॒च इ॒ह मा प्र पा॑स्त। नु॒दाम॑ एन॒मप॑ रुध्मो अ॒स्मदा॑दि॒त्या ए॑न॒मङ्गि॑रसः सचन्ताम् ॥
स्वर सहित पद पाठअ॒ग्नि: । रक्ष॑: । त॒प॒तु॒ । यत् । विऽदे॑वम् । क्र॒व्य॒ऽअत् । पि॒शा॒च: । इ॒ह । मा । प्र । पा॒स्त॒ । नु॒दाम॑: । ए॒न॒म् । अप॑ । रु॒ध्म॒: । अ॒स्मत् । आ॒दि॒त्या: । ए॒न॒म् । अङ्गि॑रस: । स॒च॒न्ता॒म् ॥३.४३॥
स्वर रहित मन्त्र
अग्नी रक्षस्तपतु यद्विदेवं क्रव्यात्पिशाच इह मा प्र पास्त। नुदाम एनमप रुध्मो अस्मदादित्या एनमङ्गिरसः सचन्ताम् ॥
स्वर रहित पद पाठअग्नि: । रक्ष: । तपतु । यत् । विऽदेवम् । क्रव्यऽअत् । पिशाच: । इह । मा । प्र । पास्त । नुदाम: । एनम् । अप । रुध्म: । अस्मत् । आदित्या: । एनम् । अङ्गिरस: । सचन्ताम् ॥३.४३॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 43
विषय - परस्पर उन्नति करने का उपदेश।
पदार्थ -
(अग्निः) अग्नि [समान तेजस्वी पुरुष] (रक्षः) उस राक्षस को (तपतु) जलावे (यत्) जो (विदेवम्) विरुद्धव्यवहारी (क्रव्यात्) मांस खानेवाला है, (पिशाचः) पिशाच [मांस खानेवाला पुरुष] (इह) यहाँ पर (मा प्र पास्त) [जलादि] पान न करे। (एनम्) इस [पिशाच] को (अस्मत्) अपने से (नुदासः) हम हटाते हैं और (अप रुध्मः) निकाले देते हैं, (आदित्याः) आदित्य [अखण्ड ब्रह्मचारी] (अङ्गिरसः) ऋषि लोग (एनम्) इस [तेजस्वी पुरुष] को (सचन्ताम्) मिलते रहें ॥४३॥
भावार्थ - विद्वान् तेजस्वी पुरुष कलहकारी दुराचारियों को निकालें और महात्मा लोग विद्वान् का सहाय करें ॥४३॥
टिप्पणी -
४३−(अग्निः) अग्निवत्तेजस्वी पुरुषः (रक्षः) राक्षसम् (तपतु) दहतु (यत्) (विदेवम्) दिवु व्यवहारे−अच्। विरुद्धव्यवहारिणम् (क्रव्यात्) मांसभक्षकम् (पिशाचः) अ० १।१६।३। मांसभक्षकः (इह) अत्र (मा प्र पास्त) पा पाने−लुङ्। आत्मनेपदं छान्दसम्। जलादिपानं मा कुर्यात् (नुदामः) प्रेरयामः (एनम्) पिशाचम् (अप रुध्मः) बहिष्कुर्मः (अस्मत्) अस्माकं सकाशात् (आदित्याः) अ० १।९।१। अदिति−ण्य। अखण्डब्रह्मचारिणः (एनम्) तेजस्विनं विद्वांसम् (अङ्गिरसः) अ० २।१२।४। ऋषयः (सचन्ताम्) षच समवाये। संगच्छन्तु ॥