Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 13
    सूक्त - आत्मा देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    सू॒र्याया॑वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत्। म॒घासु॑ ह॒न्यन्ते॒ गावः॒ फल्गु॑नीषु॒व्युह्यते ॥

    स्वर सहित पद पाठ

    सू॒र्याया॑: । व॒ह॒तु । प्र । अ॒गा॒त् । स॒वि॒ता । यम् । अ॒व॒ऽअसृ॑जत् । म॒घासु॑ । ह॒न्यन्ते॑ । गाव॑: । फल्गु॑नीषु । वि । उ॒ह्य॒ते॒ ॥१.१३॥


    स्वर रहित मन्त्र

    सूर्यायावहतुः प्रागात्सविता यमवासृजत्। मघासु हन्यन्ते गावः फल्गुनीषुव्युह्यते ॥

    स्वर रहित पद पाठ

    सूर्याया: । वहतु । प्र । अगात् । सविता । यम् । अवऽअसृजत् । मघासु । हन्यन्ते । गाव: । फल्गुनीषु । वि । उह्यते ॥१.१३॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 13

    टिप्पणीः - १३−(सूर्यायाः) प्रेरिकायाः।सूर्यदीप्तिवत्तेजोवत्याः कन्यायाः (वहतुः) एधिवह्योश्चतुः। उ० १।७७। वहप्रापणे−चतुः। विवाहकाले कन्यायै देयः पदार्थः। विवाहः। वहनकारणम् (प्र अगात्)प्रकर्षेण गच्छतु (सविता) जनकः। पिता (यम्) पदार्थम् (अव असृजत्) दत्तवान् (मघासु) मह पूजायाम्-अच् अर्शआद्यच्। मघं धननाम-निघ० २।१०। सत्कारवतीषुक्रियासु। धनवतीषु क्रियासु (हन्यन्ते) हन हिंसागत्योः। गम्यन्ते। प्राप्यन्ते (गावः) वाचः (फल्गुनीषु) फलेर्गुक् च। उ० ३।५६। फल निष्पत्तौ-उनन्, गुक् चङीप्। सफलक्रियासु (व्युह्यते) विविधं नीयते ॥

    इस भाष्य को एडिट करें
    Top