Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 5
    सूक्त - सोम देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोमः रक्षि॒तः। ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒न ते॑ अश्नाति॒ पार्थि॑वः ॥

    स्वर सहित पद पाठ

    आ॒ऽच्छत्ऽवि॑धानै: । गु॒पि॒त: । बार्ह॑तै: । सो॒म॒ । र॒क्षि॒त: । ग्राव्णा॑म् । इत् । शृ॒ण्वन् । ति॒ष्ठ॒सि॒ । न । ते॒ । अ॒श्ना॒ति॒ । पार्थि॑व: ॥१.५॥


    स्वर रहित मन्त्र

    आच्छद्विधानैर्गुपितो बार्हतैः सोमः रक्षितः। ग्राव्णामिच्छृण्वन्तिष्ठसिन ते अश्नाति पार्थिवः ॥

    स्वर रहित पद पाठ

    आऽच्छत्ऽविधानै: । गुपित: । बार्हतै: । सोम । रक्षित: । ग्राव्णाम् । इत् । शृण्वन् । तिष्ठसि । न । ते । अश्नाति । पार्थिव: ॥१.५॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 5

    टिप्पणीः - ५−(आच्छद्विधानैः) आच्छादनं कुर्वद्भिर्नियमैः (गुपितः) अन्तर्हितः (बार्हतैः)बृहती-अण्। बृहतीभिर्वेदवाग्भिर्विहितैर्विधानैः (सोमः) हे सर्वोत्पादक परमेश्वर (रक्षितः) (ग्राव्णाम्) अ० ३।१०।५। अन्येभ्योऽपिदृश्यन्ते। पा० २।३।७५। गॄविज्ञाने स्तुतौ च-क्वनिप्, पृषोदरादित्वात् साधुः। गृणातिः स्तुतिकर्मा-निरु०३।५। विदुषां [प्रार्थनाम्] (इत्) एव (शृण्वन्) आकर्णयन् (तिष्ठसि) वर्तसे (न)निषेधे (ते) तवानुभवम् (अश्नाति) भुनक्ति (पार्थिवः) पृथिवीविषयेष्वासक्तः ॥

    इस भाष्य को एडिट करें
    Top