Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 36
    सूक्त - आत्मा देवता - सोम छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    येन॑ महान॒घ्न्याज॒घन॒मश्वि॑ना॒ येन॑ वा॒ सुरा॑। येना॒क्षा अ॒भ्यषि॑च्यन्त॒ तेने॒मांवर्च॑सावतम् ॥

    स्वर सहित पद पाठ

    येन॑ । म॒हा॒ऽन॒घ्न्या: । ज॒घन॑म् । अश्वि॑ना । येन॑ । वा॒ । सुरा॑ । येन॑ । अ॒क्षा: । अ॒भि॒ऽअसि॑च्यन्त । तेन॑ । इ॒माम् । वर्च॑सा । अ॒व॒त॒म् ॥१.३६॥


    स्वर रहित मन्त्र

    येन महानघ्न्याजघनमश्विना येन वा सुरा। येनाक्षा अभ्यषिच्यन्त तेनेमांवर्चसावतम् ॥

    स्वर रहित पद पाठ

    येन । महाऽनघ्न्या: । जघनम् । अश्विना । येन । वा । सुरा । येन । अक्षा: । अभिऽअसिच्यन्त । तेन । इमाम् । वर्चसा । अवतम् ॥१.३६॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 36

    टिप्पणीः - ३६−(येन) वर्चसा (महानघ्न्याः) कप्रकरणे मूलविभुजादिभ्यउपसङ्ख्यानम्। वा० पा० ३।२।५। महा+न+हन हिंसागत्योः-क, ङीप्। न हन्तव्या नदण्डनीया सा नघ्नी तस्याः। अतिशयेन निर्दोषायाः स्त्रियाः (जघनम्) हन्तेःशरीरावयवे च। उ० ५।३२। हन हिंसागत्योः-अच्, द्वित्वं च धातोः। गमनम्। पौरुषम् (अश्विनौ) हे प्राप्तविद्यौ स्त्रीपुरुषसमूहौ (येन) (वा) समुच्चये (सुरा) म० ३५।ऐश्वर्यम्। लक्ष्मीः (येन) (अक्षाः) व्यवहाराः (अभ्यषिच्यन्त) अभिषिक्ता भवन्ति।वृद्धिं गम्यन्ते ॥

    इस भाष्य को एडिट करें
    Top