अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 20
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
भग॑स्त्वे॒तोन॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न। गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ॥
स्वर सहित पद पाठभग॑: । त्वा॒ । इ॒त: । न॒य॒तु॒ । ह॒स्त॒ऽगृह्य॑ । अ॒श्विना॑ । त्वा॒ । प्र । व॒ह॒ता॒म् । रथे॑न । गृ॒हान् । ग॒च्छ॒ । गृ॒हऽप॑त्नी । यथा॑ । अस॑: । व॒शिनी॑ । त्वम् । वि॒दथ॑म् । आ । व॒दा॒सि॒ ॥१.२०॥
स्वर रहित मन्त्र
भगस्त्वेतोनयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन। गृहान्गच्छ गृहपत्नीयथासो वशिनी त्वं विदथमा वदासि ॥
स्वर रहित पद पाठभग: । त्वा । इत: । नयतु । हस्तऽगृह्य । अश्विना । त्वा । प्र । वहताम् । रथेन । गृहान् । गच्छ । गृहऽपत्नी । यथा । अस: । वशिनी । त्वम् । विदथम् । आ । वदासि ॥१.२०॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(भगः)ऐश्वर्यवान् वरः (त्वा) वधूम् (इतः) अस्मात् स्थानात्। पितृगृहात् (नयतु) (हस्तगृह्य) अ० ५।१४।४। हस्तेन गृहीत्वा (अश्विना) प्राप्तविद्यौ स्त्री-पुरुषसमूहौ (त्वा) (प्र) प्रकर्षेण (वहताम्) नयताम् (रथेन) (गृहान्) पतिगृहान् (गच्छ)प्राप्नुहि (गृहपत्नी) गृहस्वामिनी (यथा) येन प्रकारेण (असः) भवेः (वशिनी) गृहगतानां वशं प्रापयित्री (त्वम्) (विदथम्) सभागृहम् (आ) आभिमुख्येन (वदासि)ब्रूयाः ॥
इस भाष्य को एडिट करें