अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 9
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
सोमो॑वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा। सू॒र्यां यत्पत्ये॒ शंस॑न्तीं॒ मन॑सासवि॒ताद॑दात् ॥
स्वर सहित पद पाठसोम॑: । व॒धू॒ऽयु: । अ॒भ॒व॒त् । अ॒श्विना॑ । आ॒स्ता॒म् । उ॒भा । व॒रा । सू॒र्याम् । यत् । पत्ये॑ । शंस॑न्तीम् । मन॑सा । स॒वि॒ता । अ॒द॒दा॒त् ॥१.९॥
स्वर रहित मन्त्र
सोमोवधूयुरभवदश्विनास्तामुभा वरा। सूर्यां यत्पत्ये शंसन्तीं मनसासविताददात् ॥
स्वर रहित पद पाठसोम: । वधूऽयु: । अभवत् । अश्विना । आस्ताम् । उभा । वरा । सूर्याम् । यत् । पत्ये । शंसन्तीम् । मनसा । सविता । अददात् ॥१.९॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(सोमः)शुभगुणयुक्तो ब्रह्मचारी (वधूयुः) सुप आत्मनः क्यच्। पा० ३।१।८। वधू-क्यच्।क्याच्छन्दसि। पा० ३।२।१७०। उ प्रत्ययः। वधूकामः (अभवत्) भवेत् (अश्विना) म० ८।परस्परेच्छुकौ। श्रेष्ठौ (सूर्याम्) प्रेरयित्रीम्। तेजस्विनीं कन्याम् (यत्)यदा (पत्ये) स्वाम्यर्थम् (संशन्तीम्) गुणकीर्तनं कुर्वतीम् (मनसा) हृदयेन (सविता) सर्वोत्पादकः परमेश्वरः (अददात्) दद्यात् ॥
इस भाष्य को एडिट करें