अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 22
सूक्त - आत्मा
देवता - आत्मा
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
इ॒हैव स्तं॒ मावि यौ॑ष्टं॒ विश्व॒मायु॒र्व्यश्नुतम्। क्रीड॑न्तौपु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ स्वस्त॒कौ ॥
स्वर सहित पद पाठइ॒ह । ए॒व । स्त॒म् । मा । वि । यौ॒ष्ट॒म् । विश्व॑म् । आयु॑: । वि । अ॒श्नु॒त॒म् । क्रीड॑न्तौ । पु॒त्रै: । नप्तृ॑ऽभि: । मोद॑मानौ । सु॒ऽअ॒स्त॒कौ ॥१.२२॥
स्वर रहित मन्त्र
इहैव स्तं मावि यौष्टं विश्वमायुर्व्यश्नुतम्। क्रीडन्तौपुत्रैर्नप्तृभिर्मोदमानौ स्वस्तकौ ॥
स्वर रहित पद पाठइह । एव । स्तम् । मा । वि । यौष्टम् । विश्वम् । आयु: । वि । अश्नुतम् । क्रीडन्तौ । पुत्रै: । नप्तृऽभि: । मोदमानौ । सुऽअस्तकौ ॥१.२२॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(इह) अस्मिन्गृहाश्रमनियमे (एव) अवश्यम् (स्तम्) भवतम् (मा वि यौष्टम्) वियुक्तौ मा भवेताम् (विश्वम्) सम्पूर्णम् (आयुः) जीवनम् (वि) विविधम् (अश्नुतम्) प्राप्नुतम् (क्रीडन्तौ) धर्मेण खेलन्तौ (पुत्रैः) (नप्तृभिः) पौत्रैः (मोदमानौ) आनन्दंकुर्वन्तौ (स्वस्तकौ) शोभनगृहयुक्तौ ॥
इस भाष्य को एडिट करें