Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 40
    सूक्त - आत्मा देवता - त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    शं ते॒ हिर॑ण्यं॒शमु॑ स॒न्त्वापः॒ शं मे॒थिर्भ॑वतु॒ शं यु॒गस्य॒ तर्द्म॑। शं त॒ आपः॑श॒तप॑वित्रा भवन्तु॒ शमु॒ पत्या॑ त॒न्वं सं स्पृ॑शस्व ॥

    स्वर सहित पद पाठ

    शम् । ते॒ । हिर॑ण्यम् । शम् । ऊं॒ इति॑ । स॒न्तु॒ । आप॑: । शम् । मे॒थि: । भ॒व॒तु॒ । शम् । यु॒गस्य॑ । तर्द्म॑ । शम् । ते॒ । आप॑: । श॒तऽप॑वित्रा: । भ॒व॒न्तु॒ । शम् । ऊं॒ इति॑ । पत्या॑ । त॒न्व᳡म् । सम् । स्पृ॒श॒स्व॒ ॥१.४०॥


    स्वर रहित मन्त्र

    शं ते हिरण्यंशमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म। शं त आपःशतपवित्रा भवन्तु शमु पत्या तन्वं सं स्पृशस्व ॥

    स्वर रहित पद पाठ

    शम् । ते । हिरण्यम् । शम् । ऊं इति । सन्तु । आप: । शम् । मेथि: । भवतु । शम् । युगस्य । तर्द्म । शम् । ते । आप: । शतऽपवित्रा: । भवन्तु । शम् । ऊं इति । पत्या । तन्वम् । सम् । स्पृशस्व ॥१.४०॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 40

    टिप्पणीः - ४०−(शम्) शान्तिदायम्।सुखकरम्। शान्तये (ते) तुभ्यम् (हिरण्यम्) सुवर्णम्। सुवर्णाभूषणम् (सम्) (उत)समुच्चये। अवधारणे (सन्तु) (आपः) म० ३७। प्रजाः (शम्) (मेथिः) मेथृ सङ्गे-इन्।पशुबन्धनकाष्ठदण्डः (भवतु) (शम्) (युगस्य) रथहलादेरङ्गभेदस्य (तर्द्म) तर्दहिंसायाम्-मनिन्। छिद्रम् (शम्) (ते) तुभ्यम् (आपः) जलानि (शतपवित्राः)बहुप्रकारेण शोधनशीलाः (शम्) (उ) (पत्या) स्वामिना सह (तन्वम्) तनु विस्तारे, तनश्रद्धायामुपकारे च-ऊ प्रत्ययः। श्रद्धाम् (सं स्पृशस्व) संयोजय ॥

    इस भाष्य को एडिट करें
    Top