अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 31
सूक्त - आत्मा
देवता - बृहती गर्भा त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यु॒वं भगं॒ संभ॑रतं॒ समृ॑द्धमृ॒तं वद॑न्तावृ॒तोद्ये॑षु। ब्रह्म॑णस्पते॒ पति॑म॒स्यै रो॑चय॒चारु॑ संभ॒लो व॑दतु॒ वाच॑मे॒ताम् ॥
स्वर सहित पद पाठयु॒वम् । भग॑म् । सम् । भ॒र॒त॒म् । सम्ऽऋ॑ध्दम् । ऋ॒तम् । वद॑न्तौ । ऋ॒त॒ऽउद्ये॑षु । ब्रह्म॑ण: । प॒ते॒ । पति॑म् । अ॒स्यै । रो॒च॒य॒ । चारु॑ । स॒म्ऽभ॒ल: । व॒द॒तु॒ । वाच॑म् । ए॒ताम् ॥१.३१॥
स्वर रहित मन्त्र
युवं भगं संभरतं समृद्धमृतं वदन्तावृतोद्येषु। ब्रह्मणस्पते पतिमस्यै रोचयचारु संभलो वदतु वाचमेताम् ॥
स्वर रहित पद पाठयुवम् । भगम् । सम् । भरतम् । सम्ऽऋध्दम् । ऋतम् । वदन्तौ । ऋतऽउद्येषु । ब्रह्मण: । पते । पतिम् । अस्यै । रोचय । चारु । सम्ऽभल: । वदतु । वाचम् । एताम् ॥१.३१॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 31
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३१−(युवम्) युवां वधूवरौ (भगम्) ऐश्वर्यम् (सम्) मिलित्वा (भरतम्) धारयतम् (समृद्धम्) बुहुवृद्धियुक्तम् (ऋतम्) सत्यम् (वदन्तौ) कथयन्तौ (ऋतोद्येषु)वद-क्यपि। सत्यकथनेषु (ब्रह्मणः) वेदस्य (पते) रक्षक परमेश्वर (पतिम्)भर्त्तारम् (अस्यै) वधूहिताय (रोचय) प्रसादय (चारु) यथा तथा, मनोहररीत्या (संभलः) सम्यग्वक्ता (वाचम्) वाणीम् (एताम्) ॥
इस भाष्य को एडिट करें