Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 7
    सूक्त - आत्मा देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी।सू॒र्याया॑ भ॒द्रमिद्वासो॒ गाथ॑यति॒परि॑ष्कृता ॥

    स्वर सहित पद पाठ

    रैभी॑ । आ॒सी॒त् । अ॒नु॒ऽदेयी॑ । ना॒रा॒शं॒सी । नि॒ऽओच॑नी । सू॒र्याया॑: । भ॒द्रम् । इत् । वास॑: । गाथ॑या । ए॒ति॒ । परि॑ष्कृता ॥१.७॥


    स्वर रहित मन्त्र

    रैभ्यासीदनुदेयी नाराशंसी न्योचनी।सूर्याया भद्रमिद्वासो गाथयतिपरिष्कृता ॥

    स्वर रहित पद पाठ

    रैभी । आसीत् । अनुऽदेयी । नाराशंसी । निऽओचनी । सूर्याया: । भद्रम् । इत् । वास: । गाथया । एति । परिष्कृता ॥१.७॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 7

    टिप्पणीः - ७−(रैभी) रेभ-अण्, ङीप्। रेभःस्तोतृनाम-निघ० ३।१६। रेभस्य स्तोतुरियम्। वेदवाणी (आसीत्) स्यात् (अनुदेयी)अनुदीयमानावयस्या (नाराशंसी) नर+शंसु स्तुतौ-अण्। अन्येषामपि दृश्यते। पा०६।३।१३७। इति दीर्घः। ततः प्रज्ञादित्वात् स्वार्थिकोऽण्, नराशंस एव नाराशंसः।येन नराः प्रशस्यन्ते स नराशंसो मन्त्रः-निरु० ९।९। स्त्रियां ङीप्।मनुष्यगुणानां स्तुतिः (न्योचनी) नि+उच समवाये-ल्युट्, ङीप्। लघुसहचरी (सूर्यायाः) म० ६। प्रेरिकायाः सूर्य्यदीप्तिवत्तेजस्विन्याः कन्यायाः (भद्रम्)शुभकर्म (इत्) एव (वासः) वस्त्रम् (गाथया) उषिकुषिगार्तिभ्यस्थन्। उ० २।४। गैगानेथन्। गानयोग्यया वेदविद्यया (एति) गच्छति (परिष्कृता) अलङ्कृता ॥

    इस भाष्य को एडिट करें
    Top