अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 17
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
अ॑र्य॒मणं॑यजामहे सुब॒न्धुं प॑ति॒वेद॑नम्। उ॑र्वारु॒कमि॑व॒ बन्ध॑ना॒त्प्रेतो मु॑ञ्चामि॒नामुतः॑ ॥
स्वर सहित पद पाठअ॒र्य॒मण॑म् । य॒जा॒म॒हे॒ । सु॒ऽब॒न्धुम् । प॒ति॒ऽवेद॑नम् । उ॒र्वा॒रु॒कम्ऽइ॑व । बन्ध॑नात् । प्र । इ॒त: । मु॒ञ्चा॒मि॒ । न । अ॒मुत॑: ॥१.१७॥
स्वर रहित मन्त्र
अर्यमणंयजामहे सुबन्धुं पतिवेदनम्। उर्वारुकमिव बन्धनात्प्रेतो मुञ्चामिनामुतः ॥
स्वर रहित पद पाठअर्यमणम् । यजामहे । सुऽबन्धुम् । पतिऽवेदनम् । उर्वारुकम्ऽइव । बन्धनात् । प्र । इत: । मुञ्चामि । न । अमुत: ॥१.१७॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(अर्यमणम्) श्रेष्ठमानकर्तारम् (यजामहे) पूजयामः (सुबन्धुम्) (पतिवेदनम्) पत्युः प्रज्ञापकं प्रापकं वा (उर्वारुकम् इव)उरु+आरु+कम्। कृवापाजिमि०। उ० १।१। ऋ गतौ-उण्। कर्कटीफलम् (इव) यथा (बन्धनात्)लतावृन्तात् (प्र) (इतः) अस्मात्। वियोगपाशात् (मुञ्चामि) मोचयामि (न) निषेधे (अमुतः) तस्मात्। प्रेमपाशात् ॥
इस भाष्य को एडिट करें