अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 37
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यो अ॑नि॒ध्मोदी॒दय॑द॒प्स्वन्तर्यं विप्रा॑स॒ ईड॑ते अध्व॒रेषु॑। अपां॑ नपा॒न्मधु॑मतीर॒पोदा॒ याभि॒रिन्द्रो॑ वावृ॒धे वी॒र्यावान् ॥
स्वर सहित पद पाठय: । अ॒नि॒ध्म: । दी॒दय॑त् । अ॒प्ऽसु । अ॒न्त: । यम् । विप्रा॑स: । ईड॑ते । अ॒ध्व॒रेषु॑ । अपा॑म् । न॒पा॒त् । मधु॑ऽमती: । अ॒प: । दा॒: । याभि॑: । इन्द्र॑: । व॒वृ॒धे । वी॒र्य᳡वान् ॥१.३७॥
स्वर रहित मन्त्र
यो अनिध्मोदीदयदप्स्वन्तर्यं विप्रास ईडते अध्वरेषु। अपां नपान्मधुमतीरपोदा याभिरिन्द्रो वावृधे वीर्यावान् ॥
स्वर रहित पद पाठय: । अनिध्म: । दीदयत् । अप्ऽसु । अन्त: । यम् । विप्रास: । ईडते । अध्वरेषु । अपाम् । नपात् । मधुऽमती: । अप: । दा: । याभि: । इन्द्र: । ववृधे । वीर्यवान् ॥१.३७॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 37
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३७−(यः) परमेश्वरः (अनिध्मः) अप्रकाशः।अन्तर्यामी सन् (दीदयत्) दीप्यते (अप्सु) आपः=आप्ताः प्रजाः-दयानन्दभाष्ये, यजु० ६।२७। प्रजासु (अन्तः) मध्ये (यम्) परमेश्वरम् (विप्रासः) मेधाविनः (ईडते)स्तुवन्ति (अध्वरेषु) अध्वन्+रा दाने-क। सन्मार्गदातृषु व्यवहारेषु (अपाम्)प्रजानां मध्ये (नपात्) अपतनशील। अविनाशिन् (मधुमतीः) मधुविद्यया पूर्णविज्ञानेनयुक्ताः (अपः) प्रजाः (दाः) देहि (याभिः) प्रजाभिः (इन्द्रः) परमैश्वर्यवान्मनुष्यः (वावृधे) वर्धते (वीर्यवान्) वीरकर्मयुक्तः सन् ॥
इस भाष्य को एडिट करें