Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 50
    सूक्त - आत्मा देवता - त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    गृ॒ह्णामि॑ तेसौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑। भगो॑ अर्य॒मा स॑वि॒तापुर॑न्धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥

    स्वर सहित पद पाठ

    गृ॒ह्णामि॑ । ते॒ । सौ॒भ॒ग॒ऽत्वाय॑ । हस्त॑म् । मया॑ । पत्या॑ । ज॒रतऽअ॑ष्टि: । यथा॑ । अस॑: । भग॑: । अ॒र्य॒मा । स॒वि॒ता । पुर॑म्ऽधि: । मह्म॑म्‌ । त्वा॒ । अ॒दु॒: । गार्ह॑ऽपत्याय । दे॒वा: ॥१.५०॥


    स्वर रहित मन्त्र

    गृह्णामि तेसौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः। भगो अर्यमा सवितापुरन्धिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥

    स्वर रहित पद पाठ

    गृह्णामि । ते । सौभगऽत्वाय । हस्तम् । मया । पत्या । जरतऽअष्टि: । यथा । अस: । भग: । अर्यमा । सविता । पुरम्ऽधि: । मह्मम्‌ । त्वा । अदु: । गार्हऽपत्याय । देवा: ॥१.५०॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 50

    टिप्पणीः - ५०−(गृह्णामि) (ते) तव (सौभगत्वाय) सुभगत्वाय। गृहाश्रमे सुखप्राप्तये (हस्तम्)पाणिम् (मया) (पत्या) स्वामिना सह (जरदष्टिः) म० ४९। स्तुत्या सहप्रवृत्तियुक्ता भोजनयुक्ता वा (यथा) येन प्रकारेण (असः) त्वं भवेः (भगः)सकलैश्वर्यसम्पन्नः (अर्यमा) श्रेष्ठानां मानकर्ता (सविता) सर्वप्रेरकः (पुरन्धिः) सर्वजगद्धारकः परमेश्वरः (मह्यम्) मदर्थम् (त्वा) त्वां वधूम् (अदुः)दत्तवन्तः (गार्हपत्याय) गृहकार्यसिद्धये (देवाः) विद्वांसः ॥

    इस भाष्य को एडिट करें
    Top