अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 49
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
दे॒वस्ते॑ सवि॒ताहस्तं॑ गृह्णातु॒ सोमो॒ राजा॑ सुप्र॒जसं॑ कृणोतु। अ॒ग्निः सु॒भगां॑ ज॒तवे॑दाः॒पत्ये॒ पत्नीं॑ ज॒रद॑ष्टिं कृणोतु ॥
स्वर सहित पद पाठदे॒व: । ते॒ । स॒वि॒ता । हस्त॑म् । गृ॒ह्णा॒तु॒ । सोम॑: । राजा॑ । सु॒ऽप्र॒जस॑म् । कृ॒णो॒तु॒ । अ॒ग्नि: । सु॒ऽभगा॑म् । जा॒तऽवे॑दा: । पत्ये॑ । पत्नी॑म् । ज॒रत्ऽअ॑ष्टिम् । कृ॒णो॒तु॒ ॥१.४९॥
स्वर रहित मन्त्र
देवस्ते सविताहस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु। अग्निः सुभगां जतवेदाःपत्ये पत्नीं जरदष्टिं कृणोतु ॥
स्वर रहित पद पाठदेव: । ते । सविता । हस्तम् । गृह्णातु । सोम: । राजा । सुऽप्रजसम् । कृणोतु । अग्नि: । सुऽभगाम् । जातऽवेदा: । पत्ये । पत्नीम् । जरत्ऽअष्टिम् । कृणोतु ॥१.४९॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 49
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४९−(देवः)व्यवहारकुशलः (ते) तव (सविता) सर्वप्रेरकः परमेश्वरः (हस्तम्) (गृह्णातु) (सोमः)सर्वोत्पादकः (राजा) ऐश्वर्यवान् (सुप्रजसम्) सुसन्तानयुक्ताम् (कृणोतु) करोतु (अग्निः) सर्वव्यापको जगदीश्वरः (सुभगाम्) बह्वैश्वर्यवतीम् (जातवेदाः) जातानिप्राप्तानि वेदांसि धनानि यस्मात् सः (पत्ये) स्वामिने (पत्नीम्) (जरदष्टिम्) अ०२।२८।५। जरतेः स्तुतिकर्मणः [निरु० १०।८]-अतृन्+अशू व्याप्तौ, अश भोजनेवा-क्तिन्। जरता स्तुत्या सह अष्टिः कार्यव्याप्तिर्भोजनं वा यस्यास्तथाभूताम् (कृणोतु) ॥
इस भाष्य को एडिट करें