अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 16
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
द्वे ते॑ च॒क्रेसूर्ये॑ ब्र॒ह्माण॑ ऋतु॒था वि॑दुः। अथैकं॑ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒इद्वि॒दुः ॥
स्वर सहित पद पाठद्वे इति॑ । ते॒ । च॒क्रे इति॑ । सूर्ये॑ । ब्र॒ह्माण॑: । ऋ॒तु॒ऽथा । वि॒दु॒: । अथ॑ । एक॑म् । च॒क्रम् । यत् । गुहा॑ । तत् । अ॒ध्दातय॑: । इत् । वि॒दु: ॥१.१६॥
स्वर रहित मन्त्र
द्वे ते चक्रेसूर्ये ब्रह्माण ऋतुथा विदुः। अथैकं चक्रं यद्गुहा तदद्धातयइद्विदुः ॥
स्वर रहित पद पाठद्वे इति । ते । चक्रे इति । सूर्ये । ब्रह्माण: । ऋतुऽथा । विदु: । अथ । एकम् । चक्रम् । यत् । गुहा । तत् । अध्दातय: । इत् । विदु: ॥१.१६॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 16
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १६−(द्वे) (ते) तव (चक्रे) कर्मोपासनारूपे रथाङ्गे (सूर्ये) हे प्रेरिके कन्ये (ब्रह्माणः)ब्रह्मज्ञानिनः (ऋतुथा) ऋतुषु (विदुः) जानन्ति (अथ) अनन्तरम् (एकम्) ज्ञानरूपम् (चक्रम्) (यत्) (गुहा) गुहायाम्। हृदये (तत्) (अद्धातयः) अद्धा सत्यनाम निघ०३।११+अत सातत्यगमने-इन्। सत्यज्ञानिनः। मेधाविनः निघ० ३।१६। (इत्) एव (विदुः) ॥
इस भाष्य को एडिट करें