अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 25
सूक्त - विवाह मन्त्र आशीष, वधुवास संस्पर्शमोचन
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
परा॑ देहिशामु॒ल्यं ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑। कृ॒त्यैषा॑ प॒द्वती॑ भू॒त्वा जा॒यावि॑शते॒ पति॑म् ॥
स्वर सहित पद पाठपरा॑ । दे॒हि॒ । शा॒मु॒ल्य᳡म् । ब्र॒ह्मऽभ्य॑: । वि। भ॒ज॒ । वसु॑ । कृ॒त्या । ए॒षा । प॒त्ऽवती॑ । भू॒त्वा । आ । जा॒या । वि॒श॒ते॒ । पति॑म् ॥१.२५॥
स्वर रहित मन्त्र
परा देहिशामुल्यं ब्रह्मभ्यो वि भजा वसु। कृत्यैषा पद्वती भूत्वा जायाविशते पतिम् ॥
स्वर रहित पद पाठपरा । देहि । शामुल्यम् । ब्रह्मऽभ्य: । वि। भज । वसु । कृत्या । एषा । पत्ऽवती । भूत्वा । आ । जाया । विशते । पतिम् ॥१.२५॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 25
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २५−(परा देहि) दूरं कुरु (शामुल्यम्) सानसिवर्णसिपर्णसितण्डुला०। उ०४।१०७। शमु उपशमे-उलच्, शमुलं शमलम्, अशुद्धम्, तस्य भावः−ष्यञ्।चित्तमालिन्यम् (ब्रह्मभ्यः) वेदज्ञेभ्यः (वि भज) सांहितिको दीर्घः। प्रयच्छ (वसु) श्रेष्ठं वस्तु (कृत्या) विभाषा कृवृषोः। पा० ३।१।१२०। करोतेः-क्यप्।मत्वर्थे अर्शआद्यच्। टाप्। कृत्यायां क्रियायां कुशला (एषा) (पद्वती) पतऐश्वर्ये-क्विप्, मतुप्। ऐश्वर्यवती (भूत्वा) (जाया) पत्नी (आ विशेत्) प्रविशेत् (पतिम्) पतिहृदयम् ॥
इस भाष्य को एडिट करें