अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 44
सूक्त - आत्मा
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
स॒म्राज्ञ्ये॑धि॒श्वशु॑रेषु स॒म्राज्ञ्यु॒त दे॒वृषु॑। नना॑न्दुः स॒म्राज्ञ्ये॑धि स॒म्राज्ञ्यु॒तश्व॒श्र्वाः ॥
स्वर सहित पद पाठस॒म्ऽराज्ञी॑ । ए॒धि॒ । श्वशु॑रेषु । स॒म्ऽराज्ञी॑ । उ॒त । दे॒वृषु॑ । नना॑न्दृ: । स॒म्ऽराज्ञी॑ । ए॒धि॒ । स॒म्ऽराज्ञी॑ । उ॒त । श्व॒श्वा: ॥१.४४॥
स्वर रहित मन्त्र
सम्राज्ञ्येधिश्वशुरेषु सम्राज्ञ्युत देवृषु। ननान्दुः सम्राज्ञ्येधि सम्राज्ञ्युतश्वश्र्वाः ॥
स्वर रहित पद पाठसम्ऽराज्ञी । एधि । श्वशुरेषु । सम्ऽराज्ञी । उत । देवृषु । ननान्दृ: । सम्ऽराज्ञी । एधि । सम्ऽराज्ञी । उत । श्वश्वा: ॥१.४४॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 44
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४४−(सम्राज्ञी) सम्यक् प्रकाशमाना।राजराजेश्वरी (एधि) भव (श्वशुरेषु) श्वशुरादिषु मान्येषु (सम्राज्ञी) (उत) अपि (देवृषु) म० ३९। पत्यः कनिष्ठज्येष्ठभ्रातृषु (ननान्दुः) नञि च नन्देः। उ० २।९८।नञ्+टुनदि सन्तोषे-ऋन् वृद्धिश्च। भर्तृभगिन्याः (सम्राज्ञी) (एधि) (उत) (श्वश्र्वाः) श्वशुरस्योकाराकारलोपश्च वक्तव्यः। वा० पा० ४।१।६८। श्वशुर-ऊङ्उकारस्य अकारस्य च लोपः। श्वशुरस्य भार्यायाः ॥
इस भाष्य को एडिट करें