अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 61
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
सु॑किंशु॒कंव॑ह॒तुं वि॒श्वरू॑पं॒ हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रम्। आ रो॑ह सूर्येअ॒मृत॑स्य लो॒कं स्यो॒नं पति॑भ्यो वह॒तुं कृ॑णु॒ त्वम् ॥
स्वर सहित पद पाठसु॒ऽकिं॒शु॒कम् । व॒ह॒तुम् । वि॒श्वऽरू॑पम् । हिर॑ण्यऽवर्णम् । सु॒ऽवृत॑म् । सु॒ऽच॒क्रम् । आ । रो॒ह॒ । सू॒र्ये॒॑ । अ॒मृत॑स्य । लो॒कम् । स्यो॒नम् । पति॑ऽभ्य: । व॒ह॒तुम् । कृ॒णु॒ । त्वम् ॥१.६१॥
स्वर रहित मन्त्र
सुकिंशुकंवहतुं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम्। आ रोह सूर्येअमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥
स्वर रहित पद पाठसुऽकिंशुकम् । वहतुम् । विश्वऽरूपम् । हिरण्यऽवर्णम् । सुऽवृतम् । सुऽचक्रम् । आ । रोह । सूर्ये । अमृतस्य । लोकम् । स्योनम् । पतिऽभ्य: । वहतुम् । कृणु । त्वम् ॥१.६१॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 61
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६१−(सुकिंशुकम्) सुकिंशुकम्=सुकाशनम्, किंशुकं कंशतेःप्रकाशयतिकर्मणः-निरु० १२।८। यद्वा, कायतेर्डिमिः। उ० ४।१५८। सु+कैशब्दे-डिमि+शुक गतौ-क। अतिशयेन प्रकाशमानमग्निविद्युत्प्रयोगेण। अतिशयेनप्रशंसनीयगतिमन्तम् (वहतुम्) वहनसाधनं रथम् (विश्वरूपम्)शुक्लनीलपीतरक्तादिवर्णयुक्तम्, अथवा, उच्चनीचमध्याकारयुक्तम् (हिरण्यवर्णम्)हिरण्याय सुवर्णाय वरणीयं स्वीकरणीयम् (सुवृतम्) सर्वतो वर्तनशीलम् (सुचक्रम्)दृढशीघ्रगामिचक्रयुक्तम् (आरोह) आतिष्ठ (सूर्ये) हे प्रेरणशीले !सूर्यदीप्तिवत्तेजोयुक्ते (अमृतस्य) अमरणस्य। पुरुषार्थस्य (लोकम्) संसारम्।स्थानम् (स्योनम्) सुखप्रदम् (पतिभ्यः) पतिपक्षेभ्यः (वहतुम्) वहनम्−स्वप्रापणम् (कृणु) कुरु (त्वम्) ॥
इस भाष्य को एडिट करें