अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 18
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
प्रेतोमु॑ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम्। यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रासु॒भगास॑ति ॥
स्वर सहित पद पाठप्र । इ॒त: । मु॒ञ्चा॒मि॒ । न । अ॒मुत॑: । सु॒ऽब॒ध्दाम् । अ॒मुत॑: । क॒र॒म् । यथा॑ । इ॒यम् । इ॒न्द्र॒ । मी॒ढ्व॒: । सु॒ऽपु॒त्रा: । सु॒ऽभगा॑ । अस॑ति ॥१.१८॥
स्वर रहित मन्त्र
प्रेतोमुञ्चामि नामुतः सुबद्धाममुतस्करम्। यथेयमिन्द्र मीढ्वः सुपुत्रासुभगासति ॥
स्वर रहित पद पाठप्र । इत: । मुञ्चामि । न । अमुत: । सुऽबध्दाम् । अमुत: । करम् । यथा । इयम् । इन्द्र । मीढ्व: । सुऽपुत्रा: । सुऽभगा । असति ॥१.१८॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(प्र) प्रकर्षेण (इतः) अस्मात्। वियोगपाशात् (मुञ्चामि) मोचयामि (नः) निषेधे (अमुतः) तस्मात्।प्रेमपाशात् (सुबद्धाम्) सुष्ठु बन्धनयुक्ताम् (अमुतः) तस्मिन्। प्रेमपाशे (करम्) करोमि (यथा) येन प्रकारेण (इयम्) वधूः (इन्द्र) हे परमैश्वर्यवन्परमात्मन् ! (मीढ्वः) मिह सेचने-क्वसु। हे सुखवर्षक (सुपुत्रा) शोभनपुत्रयुक्ता (सुभगा) सौभाग्यवती (असति) भवेत् ॥
इस भाष्य को एडिट करें