अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 63
सूक्त - आत्मा
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
मा हिं॑सिष्टंकुमा॒र्यं स्थूणे॑ दे॒वकृ॑ते प॒थि। शाला॑या दे॒व्या द्वारं॑ स्यो॒नं कृ॑ण्मोवधूप॒थम् ॥
स्वर सहित पद पाठमा । हिं॒सि॒ष्ट॒म् । कु॒मा॒र्य᳡म् । स्थूणे॒ इति॑ । दे॒वऽकृ॑ते । प॒थि । शाला॑या: । दे॒व्या: । द्वार॑म् । स्यो॒नम् । कृ॒ण्म॒: । व॒धू॒ऽप॒थम् ॥१.६३॥
स्वर रहित मन्त्र
मा हिंसिष्टंकुमार्यं स्थूणे देवकृते पथि। शालाया देव्या द्वारं स्योनं कृण्मोवधूपथम् ॥
स्वर रहित पद पाठमा । हिंसिष्टम् । कुमार्यम् । स्थूणे इति । देवऽकृते । पथि । शालाया: । देव्या: । द्वारम् । स्योनम् । कृण्म: । वधूऽपथम् ॥१.६३॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 63
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६३−(मा हिंसिष्टम्) दुःखं माप्रापयतम् (कुमार्यम्) कुमारीम्। वधूम् (स्थूणे) रास्नासास्नास्थूणावीणाः। उ०३।१५। ष्ठा गतिनिवृत्तौ-न प्रत्ययः, टाप्, आकारस्य ऊत्वं नस्य णत्वं च। हेस्थिरस्वभावे स्त्रीपुरुषपङ्क्ती (देवकृते) विदुषां रचिते (पथि) मार्गे (शालायाः) (देव्याः) व्यवहारयोग्यायाः (स्योनम्) सुखप्रदम् (कृण्मः) कुर्मः (वधूपथम्) वधूगमनमार्गम् ॥
इस भाष्य को एडिट करें