अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 16
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - मधु विद्या सूक्त
यथा॒ मधु॑ मधु॒कृतः॑ सं॒भर॑न्ति॒ मधा॒वधि॑। ए॒वा मे॑ अश्विना॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
स्वर सहित पद पाठयथा॑ । मधु॑ । म॒धु॒ऽकृत॑: । स॒म्ऽभर॑न्ति । मधौ॑ । अधि॑ । ए॒व । मे॒ । अ॒श्वि॒ना॒ । वर्च॑: । आ॒त्मनि॑ । ध्रि॒य॒ता॒म् ॥१.१६॥
स्वर रहित मन्त्र
यथा मधु मधुकृतः संभरन्ति मधावधि। एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥
स्वर रहित पद पाठयथा । मधु । मधुऽकृत: । सम्ऽभरन्ति । मधौ । अधि । एव । मे । अश्विना । वर्च: । आत्मनि । ध्रियताम् ॥१.१६॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 16
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १६−(मधु) ज्ञानम् (मधुकृतः) बोधकर्तारः। आचार्याः (संभरन्ति) संगृह्य धरन्ति (मधौ) ज्ञाने (अधि) यथावत्। अन्यत् पूर्ववत्-म० ११ ॥
इस भाष्य को एडिट करें