अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 5
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - मधु विद्या सूक्त
मधोः॒ कशा॑मजनयन्त दे॒वास्तस्या॒ गर्भो॑ अभवद्वि॒श्वरू॑पः। तं जा॒तं तरु॑णं पिपर्ति मा॒ता स जा॒तो विश्वा॒ भुव॑ना॒ वि च॑ष्टे ॥
स्वर सहित पद पाठमधो॑: । कशा॑म् । अ॒ज॒न॒य॒न्त॒ । दे॒वा: । तस्या॑: । गर्भ॑: । अ॒भ॒व॒त् । वि॒श्वऽरू॑प: । तम् । जा॒तम् । तरु॑णम् । पि॒प॒र्ति॒ । मा॒ता । स: । जा॒त: । विश्वा॑ । भुव॑ना । वि । च॒ष्टे॒ ॥१.५॥
स्वर रहित मन्त्र
मधोः कशामजनयन्त देवास्तस्या गर्भो अभवद्विश्वरूपः। तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवना वि चष्टे ॥
स्वर रहित पद पाठमधो: । कशाम् । अजनयन्त । देवा: । तस्या: । गर्भ: । अभवत् । विश्वऽरूप: । तम् । जातम् । तरुणम् । पिपर्ति । माता । स: । जात: । विश्वा । भुवना । वि । चष्टे ॥१.५॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(मधोः) म० १। मधुनः। ज्ञानस्य (कशाम् कश गतिशासनयोः-शब्दे च-पचाद्यच्, टाप्। कशा=वाक्-निघ० १।११। अश्वाजनीं कशेत्याहुः, कशा प्रकाशयति भयमश्वाय, कृष्यतेर्वाणूभावाद्वाक्, पुनः प्रकाशयत्यर्थान् खशया क्रोशतेर्वा-निरु० ९।१९। वाणीम् (अजनयन्त) प्रकटीकृतवन्तः (देवाः) गतिमन्तः। विद्वांसः (तस्याः) मधुकशायाः (गर्भः) अ० ३।१०।१२। आधारः (तम्) (जातम्) प्रसिद्धम् (तरुणम्) अ० ३।१२।७। तारकम्। बलिष्ठं परमेश्वरम् (पिपर्ति) पूरयति (माता) निर्मात्री मधुकशा (सः) (जातः) प्रादुर्भूतः परमेश्वरः (विश्वा) सर्वाणि (भुवना) लोकान् (वि) विविधम् (चष्टे) पश्यति ॥
इस भाष्य को एडिट करें