अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 6
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - अतिशाक्वरगर्भा यवमध्या महाबृहती
सूक्तम् - मधु विद्या सूक्त
कस्तं प्र वे॑द॒ क उ॒ तं चि॑केत॒ यो अ॑स्या हृ॒दः क॒लशः॑ सोम॒धानो॒ अक्षि॑तः। ब्र॒ह्मा सु॑मे॒धाः सो अ॑स्मिन्मदेत ॥
स्वर सहित पद पाठक: । तम् । प्र । वे॒द॒ । क: । ऊं॒ इति॑ तम् । चि॒के॒त॒ । य: । अ॒स्या॒: । हृ॒द: । क॒लश॑: । सो॒म॒ऽधान॑: । अक्षि॑त: । ब्र॒ह्मा । सु॒ऽमे॒धा: । स: । अ॒स्मि॒न् । म॒दे॒त॒ ॥१.६॥
स्वर रहित मन्त्र
कस्तं प्र वेद क उ तं चिकेत यो अस्या हृदः कलशः सोमधानो अक्षितः। ब्रह्मा सुमेधाः सो अस्मिन्मदेत ॥
स्वर रहित पद पाठक: । तम् । प्र । वेद । क: । ऊं इति तम् । चिकेत । य: । अस्या: । हृद: । कलश: । सोमऽधान: । अक्षित: । ब्रह्मा । सुऽमेधा: । स: । अस्मिन् । मदेत ॥१.६॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(कः) विद्वान् (तम्) परमेश्वरम् (वेद) वेत्ति (उ) एव (तम्) (चिकेत) कित ज्ञाने-लिट्। ज्ञातवान् (यः) परमेश्वरः (अस्याः) मधुकशायाः (हृदः) हृदयस्य (कलशः) अ० ३।१२।७। घटः (सोमधानः) अमृताधारः (अक्षितः) अक्षीणः (ब्रह्मा) चतुर्वेदज्ञः (सुमेधाः) अ० ५।११।११। सुबुद्धिः (सः) (अस्मिन्) परमेश्वरे (मदेत) हर्षेत् ॥
इस भाष्य को एडिट करें