अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 18
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - मधु विद्या सूक्त
यद्गि॒रिषु॒ पर्व॑तेषु॒ गोष्वश्वे॑षु॒ यन्मधु॑। सुरा॑यां सि॒च्यमा॑नायां॒ यत्तत्र॒ मधु॒ तन्मयि॑ ॥
स्वर सहित पद पाठयत् । गि॒रिषु॑ । पर्व॑तेषु । गोषु॑ । अश्वे॑षु । यत् । मधु॑ । सुरा॑याम् । सि॒च्यमा॑नायाम् । यत् । तत्र॑ । मधु॑ । तत् । मयि॑ ॥१.१८॥
स्वर रहित मन्त्र
यद्गिरिषु पर्वतेषु गोष्वश्वेषु यन्मधु। सुरायां सिच्यमानायां यत्तत्र मधु तन्मयि ॥
स्वर रहित पद पाठयत् । गिरिषु । पर्वतेषु । गोषु । अश्वेषु । यत् । मधु । सुरायाम् । सिच्यमानायाम् । यत् । तत्र । मधु । तत् । मयि ॥१.१८॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(गिरिषु) अ० ५।४।१। स्तूयमानेषु संन्यासिषु (पर्वतेषु) अ० ४।९।१। मेघेषु-निघ० १।१०। (सुरायाम्) अ० ६।६९।१। षुञ् अभिषवे, वा षु ऐश्वर्ये क्रन् यद्वा, षुर ऐश्वर्यदीप्त्योः-क, टाप्। जले। ऐश्वर्ये (सिच्यमानायाम्) प्रवहन्त्याम्। प्रवर्धमानायाम् (यत्) (तत्र) तस्याम्। अन्यद् गतम् ॥
इस भाष्य को एडिट करें