अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 4
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - मधु विद्या सूक्त
मा॒तादि॒त्यानां॑ दुहि॒ता वसू॑नां प्रा॒णः प्र॒जाना॑म॒मृत॑स्य॒ नाभिः॑। हिर॑ण्यवर्णा मधुक॒शा घृ॒ताची॑ म॒हान्भर्ग॑श्चरति॒ मर्त्ये॑षु ॥
स्वर सहित पद पाठमा॒ता । आ॒दित्याना॑म् । दु॒हि॒ता । वसू॑नाम् । प्रा॒ण: । प्र॒ऽजाना॑म् । अ॒मृत॑स्य । नाभि॑: । हिर॑ण्यऽवर्णा । म॒धु॒ऽक॒शा। घृ॒ताची॑ । म॒हान् । भर्ग॑: । च॒र॒ति॒ । मर्त्ये॑षु ॥१.४॥
स्वर रहित मन्त्र
मातादित्यानां दुहिता वसूनां प्राणः प्रजानाममृतस्य नाभिः। हिरण्यवर्णा मधुकशा घृताची महान्भर्गश्चरति मर्त्येषु ॥
स्वर रहित पद पाठमाता । आदित्यानाम् । दुहिता । वसूनाम् । प्राण: । प्रऽजानाम् । अमृतस्य । नाभि: । हिरण्यऽवर्णा । मधुऽकशा। घृताची । महान् । भर्ग: । चरति । मर्त्येषु ॥१.४॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(माता) निर्मात्री (आदित्यानाम्) सूर्यादिलोकानाम् (दुहिता) अ० ३।१०।१३। प्रपूरयित्री (वसूनाम्) धनानाम् (प्राणः) जीवनम् (प्रजानाम्) जीवजन्तूनाम् (अमृतस्य) अमरणस्य। महापुरुषार्थस्य (नाभिः) मध्यदेशः (हिरण्यवर्णा) तेजोरूपा (मधुकशा) म० १। वेदवाणी (घृताची) अञ्चिघृसिभ्यः क्तः। उ० ३।८९। घृ सेचने दीप्तौ च-क्त। ऋत्विग्दधृक्स्रग्०। पा० ३।२।५९। अञ्चु, गतिपूजनयोः-क्तिन्। अनिदितां हल उपधायाः क्ङिति। पा० ६।४।२४। नलोपः। अचः। पा० ६।४।१३८। अकारलोपः। चौ। पा० ६।३।१३८। दीर्घः। अञ्चतेश्चोपसंख्यानम्। वा० पा० ४।१।६। ङीप्। घृताची रात्रीनाम-निघ० १।७। सेचनसामर्थ्यप्रापयित्री (महान्) प्रवृद्धः (भर्गः) भ्रस्ज पाके-घञ्। प्रकाशः (चरति) विचरति (मर्त्येषु) मनुष्येषु ॥
इस भाष्य को एडिट करें