Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 17
    सूक्त - अथर्वा देवता - मधु, अश्विनौ छन्दः - उपरिष्टाद्विराड्बृहती सूक्तम् - मधु विद्या सूक्त

    यथा॒ मक्षा॑ इ॒दं मधु॑ न्य॒ञ्जन्ति॒ मधा॒वधि॑। ए॒वा मे॑ अश्विना॒ वर्च॒स्तेजो॒ बल॒मोज॑श्च ध्रियताम् ॥

    स्वर सहित पद पाठ

    यथा॑ । मक्षा॑: । इ॒दम् । मधु॑ । नि॒ऽअ॒ञ्जन्ति॑ । मधौ॑ । अधि॑ । ए॒व । मे॒ । अ॒श्वि॒ना॒ । वर्च॑: । तेज॑: । बल॑म् । ओज॑: । च॒ । ध्रि॒य॒ता॒म् ॥१.१७॥


    स्वर रहित मन्त्र

    यथा मक्षा इदं मधु न्यञ्जन्ति मधावधि। एवा मे अश्विना वर्चस्तेजो बलमोजश्च ध्रियताम् ॥

    स्वर रहित पद पाठ

    यथा । मक्षा: । इदम् । मधु । निऽअञ्जन्ति । मधौ । अधि । एव । मे । अश्विना । वर्च: । तेज: । बलम् । ओज: । च । ध्रियताम् ॥१.१७॥

    अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 17

    टिप्पणीः - १७−(भक्षाः) भक्ष संघाते रोषे च-अच्। संग्रहीतारः पुरुषा भ्रमरादयः कीटा वा (इदम्) इन्देः कमिन्नलोपश्च। उ० ४।१५७। इदि परमैश्वर्ये कमिन्, नलोपः। परमैश्वर्यकारणम् (मधु) ज्ञानम् (न्यञ्जन्ति) अज्जू व्यक्तिम्रक्षणकान्तिगतिषु। नितरां मिश्रयन्ति (तेजः) तीक्ष्णत्वम् (बलम्) (ओजः) पराक्रमः। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top