अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 11
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - मधु विद्या सूक्त
यथा॒ सोमः॑ प्रातःसव॒ने अ॒श्विनो॑र्भवति प्रि॒यः। ए॒वा मे॑ अश्विना॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
स्वर सहित पद पाठयथा॑ । सोम॑: । प्रा॒त॒:ऽस॒व॒ने । अश्विनो॑: । भव॑ति । प्रि॒य: । ए॒व । मे॒ । अ॒श्वि॒ना॒ । वर्च॑: । आ॒त्मनि॑ । ध्रि॒य॒ता॒म् ॥१.११॥
स्वर रहित मन्त्र
यथा सोमः प्रातःसवने अश्विनोर्भवति प्रियः। एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥
स्वर रहित पद पाठयथा । सोम: । प्रात:ऽसवने । अश्विनो: । भवति । प्रिय: । एव । मे । अश्विना । वर्च: । आत्मनि । ध्रियताम् ॥१.११॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(सोमः) ऐश्वर्यवान् बालकः। आत्मा-निरु० १४।१२। (प्रातःसवने) अ० ६।४७।१। प्रातःकालस्य यज्ञे। शैशव इत्यर्थः (अश्विनोः) अ० २।२९।६। अश्विनौ....राजानौ पुण्यकृतौ-निरु० १२।१। कार्येषु व्याप्तिमतोर्जननीजनकयोः (भवति) (प्रियः) प्रीतिपात्रम् (एव) तथा (मे) मम (अश्विना) हे चतुरमातापितरौ (वर्चः) विद्याप्रकाशः (आत्मनि) अन्तःकरणे (ध्रियताम्) स्थाप्यताम् ॥
इस भाष्य को एडिट करें