अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 14
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - पुरउष्णिक्
सूक्तम् - मधु विद्या सूक्त
मधु॑ जनिषीय॒ मधु॑ वंशिषीय। पय॑स्वानग्न॒ आग॑मं॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥
स्वर सहित पद पाठमधु॑ । ज॒नि॒षी॒य॒ । मधु॑ । वं॒शि॒षी॒य॒ । पय॑स्वान् । अ॒ग्ने॒ । आ । अ॒ग॒म॒म् । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च॑सा ॥१.१४॥
स्वर रहित मन्त्र
मधु जनिषीय मधु वंशिषीय। पयस्वानग्न आगमं तं मा सं सृज वर्चसा ॥
स्वर रहित पद पाठमधु । जनिषीय । मधु । वंशिषीय । पयस्वान् । अग्ने । आ । अगमम् । तम् । मा । सम् । सृज । वर्चसा ॥१.१४॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(मधु) म० १। ज्ञानम् (जनिषीय) जनी प्रादुर्भावे, छन्दसि प्रादुष्करणे-आशीर्लिङ्। प्रादुष्क्रियासम् (वंशिषीय) वनु याचने-आशीर्लिङि छान्दसं रूपम्। अहं वनिषीय। याचिषीय। अन्यत् पूर्ववत्-अ० ७।८९।१ ॥
इस भाष्य को एडिट करें