अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 2
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - त्रिब्टुगर्भा पङ्क्तिः
सूक्तम् - मधु विद्या सूक्त
म॒हत्पयो॑ वि॒श्वरू॑पमस्याः समु॒द्रस्य॑ त्वो॒त रेत॑ आहुः। यत॒ ऐति॑ मधुक॒शा ररा॑णा॒ तत्प्रा॒णस्तद॒मृतं॒ निवि॑ष्टम् ॥
स्वर सहित पद पाठम॒हत् । पय॑: । वि॒श्वऽरू॑पम् । अ॒स्या॒: । स॒मु॒द्रस्य॑ । त्वा॒ । उ॒त । रेत॑: । आ॒हु॒: । यत॑: । आ॒ऽएति॑ । म॒धु॒ऽक॒शा। ररा॑णा । तत् । प्रा॒ण: । तत् । अ॒मृत॑म् । निऽवि॑ष्टम् ॥१.२॥
स्वर रहित मन्त्र
महत्पयो विश्वरूपमस्याः समुद्रस्य त्वोत रेत आहुः। यत ऐति मधुकशा रराणा तत्प्राणस्तदमृतं निविष्टम् ॥
स्वर रहित पद पाठमहत् । पय: । विश्वऽरूपम् । अस्या: । समुद्रस्य । त्वा । उत । रेत: । आहु: । यत: । आऽएति । मधुऽकशा। रराणा । तत् । प्राण: । तत् । अमृतम् । निऽविष्टम् ॥१.२॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(महत्) बृहत् (पयः) पय गतौ-असुन्। पयः पिबतेर्वा प्यायतेर्वा-निरु० २।५। बलम्। अन्नम्-निघ० २।७। (विश्वरूपम्) सर्वविधरूपयुक्तम् (अस्याः) पृथिव्याः (समुद्रस्य) अ० १।१३।३। समुद्र आदित्यः, समुद्र आत्मा-निरु० १४।१६। सूर्यलोकस्य (त्वा) त्वां मधुकशाम् (उत) अपि च (रेतः) बीजम् (आहुः) कथयन्ति विद्वांसः (यतः) यस्माद् ब्रह्मणः (ऐति) आगच्छति (मधुकशा) म० १। मधुविद्या (रराणा) अ० ५।२७।११। दानशीला (तत्) तस्मिन् ब्रह्मणि (प्राणः) जीवनसामर्थ्यम् (तत्) तत्र (अमृतम्) मोक्षसुखम् (निविष्टम्) निरन्तरप्रविष्टम् ॥
इस भाष्य को एडिट करें