अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 8
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - बृहतीगर्भा संस्तारपङ्क्तिः
सूक्तम् - मधु विद्या सूक्त
हि॒ङ्करि॑क्रती बृह॒ती व॑यो॒धा उ॒च्चैर्घो॑षा॒भ्येति॒ या व्र॒तम्। त्रीन्घ॒र्मान॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥
स्वर सहित पद पाठहि॒ङ्ऽकरि॑क्रती । बृ॒ह॒ती । व॒य॒:ऽधा: । उ॒च्चै:ऽघो॑षा । अ॒भि॒ऽएति॑ । या । व्र॒तम् । त्रीन् । ध॒र्मान् । अ॒भि । वा॒व॒शा॒ना । मिमा॑ति । मा॒युम् । पय॑ते । पय॑:ऽभि: ॥१.८॥
स्वर रहित मन्त्र
हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम्। त्रीन्घर्मानभि वावशाना मिमाति मायुं पयते पयोभिः ॥
स्वर रहित पद पाठहिङ्ऽकरिक्रती । बृहती । वय:ऽधा: । उच्चै:ऽघोषा । अभिऽएति । या । व्रतम् । त्रीन् । धर्मान् । अभि । वावशाना । मिमाति । मायुम् । पयते । पय:ऽभि: ॥१.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(हिङ्करिक्रती) हि गतिवृद्ध्योः-डि। दाधर्त्तिदर्द्धर्त्तिदर्द्धर्षि०। पा० ७।४।६५। करोतेर्यङ्लुकि-शतृ, चुत्वाभावः। हिङ्कृण्वती। अ० ७।७३।८। गतिं वृद्धिं वा कुर्वती (बृहती) विशाला। वेदवाणी (वयोधाः) बलस्यान्नस्य वा दात्री (उच्चैर्घोषा) प्रसिद्धनादा (अभ्येति) प्राप्नोति (या) मधुकशा (व्रतम्) स्वकीयं कर्म (त्रीन्) शारीरिकात्मिकसामाजिकान् (घर्मान्) यज्ञान्-निघ० ३।७। (अभि) सर्वतः (वावशाना) भृशं कामयमाना (मिमाति) मा माने जुहोत्यादित्वम्। निर्माति। करोति (मायुम्) कृवापाजिमि०। उ० १।१। माङ् माने शब्दे च-उण्, युक् च। शब्दम् वाचम्-निघ० १।११। (पयते) गच्छति (पयोभिः) बलैः सह ॥
इस भाष्य को एडिट करें