अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 24
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - त्र्यवसाना षट्पदाष्टिः
सूक्तम् - मधु विद्या सूक्त
यद्वी॒ध्रे स्त॒नय॑ति प्र॒जाप॑तिरे॒व तत्प्र॒जाभ्यः॑ प्रा॒दुर्भ॑वति। तस्मा॑त्प्राचीनोपवी॒तस्ति॑ष्ठे॒ प्रजा॑प॒तेऽनु॑ मा बुध्य॒स्वेति॑। अन्वे॑नं प्र॒जा अनु॑ प्र॒जाप॑तिर्बुध्यते॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठयत् । वी॒ध्रे । स्त॒नय॑ति । प्र॒जाऽप॑ति: । ए॒व । तत् । प्र॒ऽजाभ्य॑: । प्रा॒दु: । भ॒व॒ति॒ । तस्मा॑त् । प्रा॒ची॒न॒ऽउ॒प॒वी॒त: । ति॒ष्ठे॒ । प्रजा॑ऽपते । अनु॑ । मा॒ । बु॒ध्य॒स्य॒ । इति॑ । अनु॑ । ए॒न॒म् । प्र॒ऽजा: । अनु॑ । प्र॒जाऽप॑ति: । बु॒ध्य॒ते॒ । य: । ए॒वम् । वेद॑ ॥१.२४॥
स्वर रहित मन्त्र
यद्वीध्रे स्तनयति प्रजापतिरेव तत्प्रजाभ्यः प्रादुर्भवति। तस्मात्प्राचीनोपवीतस्तिष्ठे प्रजापतेऽनु मा बुध्यस्वेति। अन्वेनं प्रजा अनु प्रजापतिर्बुध्यते य एवं वेद ॥
स्वर रहित पद पाठयत् । वीध्रे । स्तनयति । प्रजाऽपति: । एव । तत् । प्रऽजाभ्य: । प्रादु: । भवति । तस्मात् । प्राचीनऽउपवीत: । तिष्ठे । प्रजाऽपते । अनु । मा । बुध्यस्य । इति । अनु । एनम् । प्रऽजा: । अनु । प्रजाऽपति: । बुध्यते । य: । एवम् । वेद ॥१.२४॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 24
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २४−(यत्) यथा (वीध्रे) अ० ४।२०।७। वि+इन्धी दीप्तौ-क्रन्, नलोपः। प्रकाशितलोकयुक्ते। नभसि। वायौ (स्तनयति) मेघः शब्दयति (प्रजापतिः) जगदीश्वरः (एव) (तत्) तथा (प्रजाभ्यः) जीवेभ्यः (प्रादुः) अर्त्तिपॄवपियजि०। उ० २।११७। प्र+अद भक्षणे, अवने च-उसि। प्रकाशे (भवति) (तस्मात्) कारणात् (प्राचीनोपवीतः) प्राचीन-अ० ४।११।८+उप+वी गतिव्याप्तिकान्त्यादिषु-क्त। प्राचीने सर्वपुरातने परमेश्वरे बहुप्रीतः (तिष्ठे) प्रकाशनस्थेयाख्ययोश्च। पा० १।३।२३। इत्यात्मनेपदम्। आशयं प्रकाशयामि। निवेदयामि (प्रजापते) (अनु बुध्यस्व) अनुजानीहि। अनुगृहाण (मा) माम् (अनु) अनुबुध्यन्ते (एनम्) ब्रह्मवादिनम् (प्रजाः) प्राणिनः (प्रजापतिः) (अनुबुध्यते) अनुगृह्णाति। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें