अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 1
सपत्न॒हन॑मृष॒भं घृ॒तेन॒ कामं॑ शिक्षामि ह॒विषाज्ये॑न। नी॒चैः स॒पत्ना॒न्मम॑ पादय॒ त्वम॒भिष्टु॑तो मह॒ता वी॒र्येण ॥
स्वर सहित पद पाठस॒प॒त्न॒ऽहन॑म् । ऋ॒ष॒भम् । घृ॒तेन॑ । काम॑म् । शि॒क्षा॒मि॒ । ह॒विषा॑ । आज्ये॑न । नी॒चै: । स॒ऽपत्ना॑न् । मम॑ । पा॒द॒य॒ । त्वम् । अ॒भिऽस्तु॑त: । म॒ह॒ता । वी॒र्ये᳡ण ॥२.१॥
स्वर रहित मन्त्र
सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाज्येन। नीचैः सपत्नान्मम पादय त्वमभिष्टुतो महता वीर्येण ॥
स्वर रहित पद पाठसपत्नऽहनम् । ऋषभम् । घृतेन । कामम् । शिक्षामि । हविषा । आज्येन । नीचै: । सऽपत्नान् । मम । पादय । त्वम् । अभिऽस्तुत: । महता । वीर्येण ॥२.१॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(सपत्नहनम्) शत्रुनाशकम् (ऋषभम्) अ० ३।६।४। बलिनम् (घृतेन) प्रकाशेन (कामम्) अ० ३।२१।४। कमनीयं कामयितारं वा परमेश्वरम् (शिक्षामि) अ० ७।१०९।१। शिक्षे। अभ्यस्यामि (हविषा) आत्मदानेन (आज्येन) अ० ५।८।१। आङ्+अञ्जू गतौ-क्यप्। समन्ताद् गत्या। सर्वोपायेन (नीचैः) (सपत्नान्) शत्रून् (मम) (पादय) गमय (त्वम्)। (अभिष्टुतः) प्रशंसितः (महता) विशालेन (वीर्येण) वीर्यकर्मणा ॥
इस भाष्य को एडिट करें