अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 4
नु॒दस्व॑ काम॒ प्र णु॑दस्व का॒माव॑र्तिं यन्तु॒ मम॒ ये स॒पत्नाः॑। तेषां॑ नु॒त्ताना॑मध॒मा तमां॒स्यग्ने॒ वास्तू॑नि॒ निर्द॑ह॒ त्वम् ॥
स्वर सहित पद पाठनु॒दस्व॑ । का॒म॒ । प्र । नु॒द॒स्व॒ । का॒म॒ । अव॑र्तिम् । य॒न्तु॒ । मम॑ । ये । स॒ऽपत्ना॑: । तेषा॑म् । नु॒त्ताना॑म् । अ॒ध॒मा । तमां॑सि । अग्ने॑ । वास्तू॑नि । नि: । द॒ह॒ । त्वम् ॥२.४॥
स्वर रहित मन्त्र
नुदस्व काम प्र णुदस्व कामावर्तिं यन्तु मम ये सपत्नाः। तेषां नुत्तानामधमा तमांस्यग्ने वास्तूनि निर्दह त्वम् ॥
स्वर रहित पद पाठनुदस्व । काम । प्र । नुदस्व । काम । अवर्तिम् । यन्तु । मम । ये । सऽपत्ना: । तेषाम् । नुत्तानाम् । अधमा । तमांसि । अग्ने । वास्तूनि । नि: । दह । त्वम् ॥२.४॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(नुदस्व) प्रेरय (काम) म० १। हे कमनीय (प्र) प्रकर्षेण (नुदस्व) (काम) (अवर्तिम्) निर्जीविकाम् (यन्तु) प्राप्नुवन्तु (मम) (ये) (सपत्नाः) शत्रवः (तेषाम्) शत्रूणाम् (नुत्तानाम्) प्रेरितानाम् (अधमा) नीचानि (तमांसि) अन्धकारान्। अज्ञानानि (अग्ने) हे तेजस्विन् परमात्मन् (वास्तूनि) अ० ७।१०८।१। गृहाणि (निर्दह) भस्मीकुरु (त्वम्) ॥
इस भाष्य को एडिट करें