Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 6
    सूक्त - अथर्वा देवता - कामः छन्दः - त्रिष्टुप् सूक्तम् - काम सूक्त

    काम॒स्येन्द्र॑स्य॒ वरु॑णस्य॒ राज्ञो॒ विष्णो॒र्बले॑न सवि॒तुः स॒वेन॑। अ॒ग्नेर्हो॒त्रेण॒ प्र णु॑दे स॒पत्ना॑ञ्छ॒म्बीव॒ नाव॑मुद॒केषु॒ धीरः॑ ॥

    स्वर सहित पद पाठ

    काम॑स्य । इन्द्र॑स्य । वरु॑णस्य । राज्ञ॑: । विष्णो॑: । बले॑न । स॒वि॒तु: । स॒वेन॑ । अ॒ग्ने: । हो॒त्रेण॑ । प्र । नु॒दे॒ । स॒ऽपत्ना॑न् । श॒म्बीऽइ॑व । नाव॑म् । उ॒द॒केषु॑ । धीर॑: ॥२.६॥


    स्वर रहित मन्त्र

    कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितुः सवेन। अग्नेर्होत्रेण प्र णुदे सपत्नाञ्छम्बीव नावमुदकेषु धीरः ॥

    स्वर रहित पद पाठ

    कामस्य । इन्द्रस्य । वरुणस्य । राज्ञ: । विष्णो: । बलेन । सवितु: । सवेन । अग्ने: । होत्रेण । प्र । नुदे । सऽपत्नान् । शम्बीऽइव । नावम् । उदकेषु । धीर: ॥२.६॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 6

    टिप्पणीः - ६−(कामस्य) कमनीयस्य परमेश्वरस्य (इन्द्रस्य) परमैश्वर्यवतः (वरुणस्य) श्रेष्ठस्य (राज्ञः) शासकस्य (विष्णोः) सर्वव्यापकस्य (बलेन) (सवितुः) सर्वप्रेरकस्य (सवेन) ऐश्वर्येण (अग्नेः) सर्वज्ञस्य (होत्रेण) दानेन (प्र णुदे) प्रेरयामि। वशीकरोमि (सपत्नान्) शत्रून् (शम्बी) शम्ब सम्बन्धने गतौ च-अच्। यद्वा, शमेर्बन्। उ० ४।९४। शमु उपशमे-बन्। यद्वा, शातयतेर्बन्। शम्ब इति वज्रनाम शमयतेर्वा शातयतेर्वा-निरु० ५।˜२४। अत इनिठनौ। पा० ५।२।११५। शम्ब-इनि। वज्रवान्। कर्णधारः (इव) यथा (नावम्) पोतम् (उदकेषु) गम्भीरजलेषु (धीरः) धीमान्। प्रवीणः। पण्डितः ॥

    इस भाष्य को एडिट करें
    Top