अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 19
कामो॑ जज्ञे प्रथ॒मो नैनं॑ दे॒वा आ॑पुः पि॒तरो॒ न मर्त्याः॑। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥
स्वर सहित पद पाठकाम॑: । ज॒ज्ञे॒ । प्र॒थ॒म: । न । ए॒न॒म् । दे॒वा: । आ॒पु॒: । पि॒तर॑: । न । मर्त्या॑: । तत॑: । त्वम् । अ॒सि॒ । ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ ॥२.१९॥
स्वर रहित मन्त्र
कामो जज्ञे प्रथमो नैनं देवा आपुः पितरो न मर्त्याः। ततस्त्वमसि ज्यायान्विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥
स्वर रहित पद पाठकाम: । जज्ञे । प्रथम: । न । एनम् । देवा: । आपु: । पितर: । न । मर्त्या: । तत: । त्वम् । असि । ज्यायान् । विश्वहा । महान् । तस्मै । ते । काम । नम: । इत् । कृणोमि ॥२.१९॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 19
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १९−(कामः) कमनीयः परमेश्वरः (जज्ञे) प्रादुर्बभूव (प्रथमः) सृष्टेः प्राग् वर्तमानः (न) निषेधे (एनम्) परमेश्वरम् (देवाः) गतिमन्तो लोकाः पृथिवीसूर्यादयः (आपुः) प्राप्तवन्तः (पितरः) रक्षितारः (न) (मर्त्याः) मनुष्याः (ततः) तस्मात् कारणात् (त्वम्) (असि) (ज्यायान्) वृद्ध-ईयसुन्। वृद्धतरः (विश्वहा) विश्वधा। सर्वथा (महान्) पूजनीयः (तस्मै) तथाविधाय (ते) तुभ्यम् (काम) (नमः) सत्कारम् (इत्) एव (कृणोमि) करोमि ॥
इस भाष्य को एडिट करें