Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 10
    सूक्त - अथर्वा देवता - कामः छन्दः - त्रिष्टुप् सूक्तम् - काम सूक्त

    ज॒हि त्वं का॑म॒ मम॒ ये स॒पत्ना॑ अ॒न्धा तमां॒स्यव॑ पादयैनान्। निरि॑न्द्रिया अर॒साः स॑न्तु॒ सर्वे॒ मा ते जी॑विषुः कत॒मच्च॒नाहः॑ ॥

    स्वर सहित पद पाठ

    ज॒हि । त्वम् । का॒म॒ । मम॑ । ये । स॒ऽपत्ना॑: । अ॒न्धा । तमां॑सि । अव॑ । पा॒द॒य॒ । ए॒ना॒न् । नि:ऽइ॑न्द्रिया: । अ॒र॒सा: । स॒न्तु॒ । सर्वे॑ । मा । ते । जी॒वि॒षु॒: । क॒त॒मत् । च॒न । अह॑: ॥२.१०॥


    स्वर रहित मन्त्र

    जहि त्वं काम मम ये सपत्ना अन्धा तमांस्यव पादयैनान्। निरिन्द्रिया अरसाः सन्तु सर्वे मा ते जीविषुः कतमच्चनाहः ॥

    स्वर रहित पद पाठ

    जहि । त्वम् । काम । मम । ये । सऽपत्ना: । अन्धा । तमांसि । अव । पादय । एनान् । नि:ऽइन्द्रिया: । अरसा: । सन्तु । सर्वे । मा । ते । जीविषु: । कतमत् । चन । अह: ॥२.१०॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 10

    टिप्पणीः - १०−(जहि) नाशय (अन्धा) अन्ध दृष्टिनाशे-अच्। निबिडानि (तमांसि) अन्धकारान् (अव पादय) अधो गमय (एनान्) शत्रून् (निरिन्द्रियाः) इन्द्रियं धनम्-निघ० २।१०। निर्धनाः (अरसाः) निर्वीर्याः (ते) सपत्नाः (मा जीविषुः) मा प्राणान् धारयन्तु (कतमत् चन) किमपि (अहः) दिनम्। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top