Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 5
    सूक्त - अथर्वा देवता - कामः छन्दः - अतिजगती सूक्तम् - काम सूक्त

    सा ते॑ काम दुहि॒ता धे॒नुरु॑च्यते॒ यामा॒हुर्वाचं॑ क॒वयो॑ वि॒राज॑म्। तया॑ स॒पत्ना॒न्परि॑ वृङ्ग्धि॒ ये मम॒ पर्ये॑नान्प्रा॒णः प॒शवो॒ जीव॑नं वृणक्तु ॥

    स्वर सहित पद पाठ

    सा । ते॒ । का॒म॒ । दु॒हि॒ता । धे॒नु: । उ॒च्य॒ते॒ । याम् । आ॒हु: । वाच॑म् । क॒वय॑: । वि॒ऽराज॑म् । तया॑ । स॒ऽपत्ना॑न् । परि॑ । वृ॒ङ्ग्धि॒ । ये । मम॑ । परि॑ । ए॒ना॒न् । प्रा॒ण: । प॒शव॑: । जीव॑नम् । वृ॒ण॒क्तु॒ ॥२.५॥


    स्वर रहित मन्त्र

    सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम्। तया सपत्नान्परि वृङ्ग्धि ये मम पर्येनान्प्राणः पशवो जीवनं वृणक्तु ॥

    स्वर रहित पद पाठ

    सा । ते । काम । दुहिता । धेनु: । उच्यते । याम् । आहु: । वाचम् । कवय: । विऽराजम् । तया । सऽपत्नान् । परि । वृङ्ग्धि । ये । मम । परि । एनान् । प्राण: । पशव: । जीवनम् । वृणक्तु ॥२.५॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 5

    टिप्पणीः - ५−(सा) प्रसिद्धा (ते) तव (काम) कमनीय (दुहिता) अ० ३।१०।१३। कामानां प्रपूरयित्री (धेनुः) अ० ३।१०।१। तर्पयित्री वाक्-निघ० १।११। (उच्यते) (याम्) (आहुः) कथयन्ति (वाचम्) वेदवाणीम् (कवयः) मेधाविनः (विराजम्) अ० ८।९।१। विवधेश्वरीम् (तया) वाचा (सपत्नान्) शत्रून् (परिवृङ्ग्धि) सर्वतो वर्जय (ये) शत्रवः (मम) (परि) (एनान्) सपत्नान् (प्राणः) आत्मोत्कर्षः (पशवः) प्राणिनः (जीवनम्) जीवनसाधनम् (वृणक्तु) अ० १।३०।३। वर्जयतु ॥

    इस भाष्य को एडिट करें
    Top