Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 22
    सूक्त - अथर्वा देवता - कामः छन्दः - जगती सूक्तम् - काम सूक्त

    याव॑ती॒र्भृङ्गा॑ ज॒त्वः कु॒रूर॑वो॒ याव॑ती॒र्वघा॑ वृक्षस॒र्प्यो बभू॒वुः। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥

    स्वर सहित पद पाठ

    याव॑ती: । भृङ्गा॑: । ज॒त्व᳡: । कु॒रूर॑व: । याव॑ती: । वघा॑: । वृ॒क्ष॒ऽस॒र्प्य᳡: । ब॒भू॒वु: । तत॑: । त्वम् । अ॒सि॒ ।ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ ॥२.२२॥


    स्वर रहित मन्त्र

    यावतीर्भृङ्गा जत्वः कुरूरवो यावतीर्वघा वृक्षसर्प्यो बभूवुः। ततस्त्वमसि ज्यायान्विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥

    स्वर रहित पद पाठ

    यावती: । भृङ्गा: । जत्व: । कुरूरव: । यावती: । वघा: । वृक्षऽसर्प्य: । बभूवु: । तत: । त्वम् । असि ।ज्यायान् । विश्वहा । महान् । तस्मै । ते । काम । नम: । इत् । कृणोमि ॥२.२२॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 22

    टिप्पणीः - २२−(भृङ्गाः) भृञः किन्नुट् च। उ० १।१२५। डुभृञ् भरणे-गन्, कित् नुट् च। भ्रमर्य्यः (जत्वः) फलिपाटिनमि०। उ० १।१८। जनी प्रादुर्भावे-उ, नस्य तः। जतुकाः। निशाचरपक्षिविशेषाः (कुरूरवः) रूशातिभ्यां क्रुन्। उ० ४।१०३। कु+रु शब्दे−क्रुन्, छान्दसो दीर्घः। कुत्सितध्वनयः (वघाः) अ० ६।५०।३। अन्येष्वपि दृश्यते। पा० ३।२।१०१। अव+हन-हिंसागत्योः-ड, टाप्। वष्टि भागुरिरल्लोपम्-अवशब्दस्य अलोपः। अवहननशीलाः। कीटादयः (वृक्षसर्प्यः) वृक्षेषु सर्पणशीला जन्तुपङ्क्त्यः (बभूवुः) अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top