अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 21
याव॑ती॒र्दिशः॑ प्र॒दिशो॒ विषू॑ची॒र्याव॑ती॒राशा॑ अभि॒चक्ष॑णा दि॒वः। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥
स्वर सहित पद पाठयाव॑ती: । दिश॑: । प्र॒ऽदिश॑: । विषू॑ची: । याव॑ती: । आशा॑: । अ॒भि॒ऽचक्ष॑णा: । दि॒व: । तत॑: । त्वम् । अ॒सि॒ । ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ ॥२.२१॥
स्वर रहित मन्त्र
यावतीर्दिशः प्रदिशो विषूचीर्यावतीराशा अभिचक्षणा दिवः। ततस्त्वमसि ज्यायान्विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥
स्वर रहित पद पाठयावती: । दिश: । प्रऽदिश: । विषूची: । यावती: । आशा: । अभिऽचक्षणा: । दिव: । तत: । त्वम् । असि । ज्यायान् । विश्वहा । महान् । तस्मै । ते । काम । नम: । इत् । कृणोमि ॥२.२१॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 21
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २१−(यावतीः) यत्प्रमाणाः (दिशः) पूर्वादयः (प्रदिशः) अन्तर्दिशाः (विषूचीः) अ० १।१९।१। सर्वत्रव्यापिकाः (आशाः) आ+अशू व्याप्तौ-अच्। दिशाः। तत्रत्या देशाः (अभिचक्षणाः) चक्षिङ् दर्शने-ल्यु। दृश्यानि। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें