अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 13
सूक्त - अथर्वा
देवता - कामः
छन्दः - द्विपदार्च्यनुष्टुप्
सूक्तम् - काम सूक्त
अ॒ग्निर्यव॒ इन्द्रो॒ यवः॒ सोमो॒ यवः॑। य॑व॒यावा॑नो दे॒वा य॑वयन्त्वेनम् ॥
स्वर सहित पद पाठअ॒ग्नि: । यव॑: । इन्द्र॑: । यव॑: । सोम॑: । यव॑: । य॒व॒ऽयावा॑न: । दे॒वा: । य॒व॒य॒न्तु॒ । ए॒न॒म् ॥२.१३॥
स्वर रहित मन्त्र
अग्निर्यव इन्द्रो यवः सोमो यवः। यवयावानो देवा यवयन्त्वेनम् ॥
स्वर रहित पद पाठअग्नि: । यव: । इन्द्र: । यव: । सोम: । यव: । यवऽयावान: । देवा: । यवयन्तु । एनम् ॥२.१३॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(अग्निः) ज्ञानवान् परमेश्वरः (यवः) यु मिश्रणामिश्रणयोः-अप्। अधर्मस्य पृथक्कर्ता (इन्द्रः) परमेश्वरः (यवः) दुष्कर्मनाशकः (सोमः) सुखोत्पादकः (यवः) सुखसंयोजकः (यवयावानः) कनिन् युवृषितक्षिराजि०। उ० १।१५६। यव+यु निन्दने चुरादिः-कनिन्। यवानां यवनानां धर्मनिन्दकानां निन्दकः (देवाः) विद्वांसः (यवयन्तु) सांहितिको दीर्घः। मिश्रयन्तु। प्राप्नुवन्तु ॥
इस भाष्य को एडिट करें