अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 7
अध्य॑क्षो वा॒जी मम॒ काम॑ उ॒ग्रः कृ॒णोतु॒ मह्य॑मसप॒त्नमे॒व। विश्वे॑ दे॒वा मम॑ ना॒थं भ॑वन्तु॒ सर्वे॑ दे॒वा हव॒मा य॑न्तु म इ॒मम् ॥
स्वर सहित पद पाठअधि॑ऽअक्ष: । वा॒जी । मम॑ । काम॑: । उ॒ग्र: । कृ॒णोतु॑ । मह्य॑म् । अ॒स॒प॒त्नम् । ए॒व । विश्वे॑ । दे॒वा: । मम॑ । ना॒थम् । भ॒व॒न्तु॒ । सर्वे॑ ।दे॒वा: । हव॑म् । आ । य॒न्तु॒ । मे॒ । इ॒मम् ॥२.७॥
स्वर रहित मन्त्र
अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव। विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम् ॥
स्वर रहित पद पाठअधिऽअक्ष: । वाजी । मम । काम: । उग्र: । कृणोतु । मह्यम् । असपत्नम् । एव । विश्वे । देवा: । मम । नाथम् । भवन्तु । सर्वे ।देवा: । हवम् । आ । यन्तु । मे । इमम् ॥२.७॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(अध्यक्षः) अधिगतोऽक्षं व्यक्षहारं यः। अधिष्ठाता (वाजी) पराक्रमी (मम) उपासकस्य (कामः) कमनीयः परमेश्वरः (उग्रः) तेजस्वी (कृणोतु) करोतु (मह्यम्) द्वितीयार्थे चतुर्थी। माम् (असपत्नम्) अशत्रुम् (एव) अवश्यम् (विश्वे) सर्वे (देवाः) दिव्यगुणाः (मम) (नाथम्) नाथृ याच्ञोपतापैश्वर्याशीःषु-अच्। ऐश्वर्यम् (भवन्तु) सन्तु (सर्वे) (देवाः) दिव्यगुणाः पुरुषाः (हवम्) आह्वानम् (आ यन्तु) आगत्य प्राप्नुवन्तु (मे) मम (इमम्) पूर्वोक्तम् ॥
इस भाष्य को एडिट करें