अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 17
येन॑ दे॒वा असु॑रा॒न्प्राणु॑दन्त॒ येनेन्द्रो॒ दस्यू॑नध॒मं तमो॑ नि॒नाय॑। तेन॒ त्वं का॑म॒ मम॒ ये स॒पत्ना॒स्तान॒स्माल्लो॒कात्प्र णु॑दस्व दू॒रम् ॥
स्वर सहित पद पाठयेन॑ । दे॒वा: । असु॑रान् । प्र॒ऽअनु॑दन्त ।येन॑ । इन्द्र॑: । दस्यू॑न् । अ॒ध॒मम् । तम॑: । नि॒नाय॑ । तेन॑ । त्वम् । का॒म॒ । मम॑ । ये । स॒ऽपत्ना॑: । तान् । अ॒स्मात् । लो॒कात् । प्र । नु॒द॒स्व॒ । दू॒रम् ॥२.१७॥
स्वर रहित मन्त्र
येन देवा असुरान्प्राणुदन्त येनेन्द्रो दस्यूनधमं तमो निनाय। तेन त्वं काम मम ये सपत्नास्तानस्माल्लोकात्प्र णुदस्व दूरम् ॥
स्वर रहित पद पाठयेन । देवा: । असुरान् । प्रऽअनुदन्त ।येन । इन्द्र: । दस्यून् । अधमम् । तम: । निनाय । तेन । त्वम् । काम । मम । ये । सऽपत्ना: । तान् । अस्मात् । लोकात् । प्र । नुदस्व । दूरम् ॥२.१७॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(येन) प्रयत्नेन (देवाः) विजिगीषवः (असुरान्) सुरविरोधिनो दुष्टान् (प्राणुदन्त) प्रेरितवन्तः (येन) (इन्द्रः) परमैश्वर्यवान् पुरुषः (दस्यून्) अ० २।१४।५। चोरादीन् (अधमम्) कुत्सितम् (तमः) अन्धकारम् (निनाय) प्रापितवान् (तेन) उपायेन (अस्मात्) दृश्यमानात् (लोकात्) स्थानात् (प्रणुदस्व) बहिष्कुरु। अन्यद् गतम् ॥
इस भाष्य को एडिट करें