Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 15
    सूक्त - अथर्वा देवता - कामः छन्दः - जगती सूक्तम् - काम सूक्त

    च्यु॒ता चे॒यं बृ॑ह॒त्यच्यु॑ता च वि॒द्युद्बि॑भर्ति स्तनयि॒त्नूंश्च॒ सर्वा॑न्। उ॒द्यन्ना॑दि॒त्यो द्रवि॑णेन॒ तेज॑सा नी॒चैः स॒पत्ना॑न्नुदतां मे॒ सह॑स्वान् ॥

    स्वर सहित पद पाठ

    च्यु॒ता । च॒ । इ॒यम् । बृ॒ह॒ती ।अच्यु॑ता । च॒ । वि॒ऽद्युत् । बि॒भ॒र्ति॒ । स्त॒न॒यि॒त्नून् । च॒ । सर्वा॑न् । उ॒त्ऽयन् । आ॒दि॒त्य: । द्रवि॑णेन । तेज॑सा । नी॒चै: । स॒ऽपत्ना॑न् । नु॒द॒ता॒म् । मे॒ । सह॑स्वान् ॥२.१५॥


    स्वर रहित मन्त्र

    च्युता चेयं बृहत्यच्युता च विद्युद्बिभर्ति स्तनयित्नूंश्च सर्वान्। उद्यन्नादित्यो द्रविणेन तेजसा नीचैः सपत्नान्नुदतां मे सहस्वान् ॥

    स्वर रहित पद पाठ

    च्युता । च । इयम् । बृहती ।अच्युता । च । विऽद्युत् । बिभर्ति । स्तनयित्नून् । च । सर्वान् । उत्ऽयन् । आदित्य: । द्रविणेन । तेजसा । नीचै: । सऽपत्नान् । नुदताम् । मे । सहस्वान् ॥२.१५॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 15

    टिप्पणीः - १५−(च्युता) च्युङ् गतौ-क्त। शेर्लोपः। च्युतानि अधोगतानि। निर्बलानि वस्तूनि (च) (इयम्) प्रत्यक्षा (बृहती) महती (अच्युता) अनधोगतानि। प्रबलानि द्रव्याणि (च) (विद्युत्) विविधं द्योतमाना शक्तिः। परमेश्वरः (बिभर्त्ति) धरति (स्तनयित्नून्) अ० १।१३।—१। गर्जनशीलान् (च) (सर्वान्) (उद्यन्) उदयं गच्छन् (आदित्यः) अ० १।९।१। आदीप्यमानः परमेश्वरः (द्रविणेन) बलेन-निघ० २।९। (तेजसा) प्रतापेन (नीचैः) (सपत्नान्) (नुदताम्) प्रेरयतु (मे) मम (सहस्वान्) बलवान् ॥

    इस भाष्य को एडिट करें
    Top