Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 16
    सूक्त - अथर्वा देवता - कामः छन्दः - चतुष्पदा शक्वरीगर्भा परा जगती सूक्तम् - काम सूक्त

    यत्ते॑ काम॒ शर्म॑ त्रि॒वरू॑थमु॒द्भु ब्रह्म॒ वर्म॒ वित॑तमनतिव्या॒ध्यं कृ॒तम्। तेन॑ स॒पत्ना॒न्परि॑ वृङ्ग्धि॒ ये मम॒ पर्ये॑नान्प्रा॒णः प॒शवो॒ जीव॑नं वृणक्तु ॥

    स्वर सहित पद पाठ

    यत् । ते॒ । का॒म॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । उ॒त्ऽभु । ब्रह्म॑ । वर्म॑ । विऽत॑तम् । अ॒न॒ति॒ऽव्या॒ध्य᳡म् । कृ॒तम् । तेन॑ । स॒ऽपत्ना॑न् । परि॑ । वृ॒ङ्ग्धि॒ । ये । मम॑ । परि॑ । ए॒ना॒न् । प्रा॒ण: । प॒शव॑: । जीव॑नम् । वृ॒ण॒क्तु॒ ॥२.१६॥


    स्वर रहित मन्त्र

    यत्ते काम शर्म त्रिवरूथमुद्भु ब्रह्म वर्म विततमनतिव्याध्यं कृतम्। तेन सपत्नान्परि वृङ्ग्धि ये मम पर्येनान्प्राणः पशवो जीवनं वृणक्तु ॥

    स्वर रहित पद पाठ

    यत् । ते । काम । शर्म । त्रिऽवरूथम् । उत्ऽभु । ब्रह्म । वर्म । विऽततम् । अनतिऽव्याध्यम् । कृतम् । तेन । सऽपत्नान् । परि । वृङ्ग्धि । ये । मम । परि । एनान् । प्राण: । पशव: । जीवनम् । वृणक्तु ॥२.१६॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 16

    टिप्पणीः - १६−(यत्) (ते) तव (काम) (शर्म) सुखम्-निघ० ३।६। सुखकरम् (त्रिवरूथम्) अ० ८।५।२०। त्रीणि शारीरिकात्मिकसामाजिकानि वरूथानि रक्षणानि यस्मिन् तत्। (उद्भु) भू-डु। प्रभु। समर्थम् (ब्रह्म) वेदः (वर्म) कवचम् (विततम्) विस्तृतम् (अनतिव्याध्यम्) व्यध ताडने−ण्यत्। नैव छेदनीयम् (कृतम्) सम्पादितम् (तेन) ब्रह्मणा। अन्यत् पूर्ववत्-म० ५ ॥

    इस भाष्य को एडिट करें
    Top