Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 10
    सूक्त - अथर्वा देवता - मधु, अश्विनौ छन्दः - परोष्णिक्पङ्क्तिः सूक्तम् - मधु विद्या सूक्त

    स्त॑नयि॒त्नुस्ते॒ वाक्प्र॑जापते॒ वृषा॒ शुष्मं॑ क्षिपसि॒ भूम्या॒मधि॑। अ॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे म॒रुता॑मु॒ग्रा न॒प्तिः ॥

    स्वर सहित पद पाठ

    स्त॒न॒यि॒त्नु: । ते॒ । वाक् । प्र॒जा॒ऽप॒ते॒ । वृषा॑ । शुष्म॑म् । क्षि॒प॒सि॒ । भूम्या॑म् । अधि॑ । अ॒ग्ने: । वाता॑त् । म॒धु॒ऽक॒शा । हि । ज॒ज्ञे । म॒रुता॑म् । उ॒ग्रा । न॒प्ति: ॥१.१०॥


    स्वर रहित मन्त्र

    स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यामधि। अग्नेर्वातान्मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥

    स्वर रहित पद पाठ

    स्तनयित्नु: । ते । वाक् । प्रजाऽपते । वृषा । शुष्मम् । क्षिपसि । भूम्याम् । अधि । अग्ने: । वातात् । मधुऽकशा । हि । जज्ञे । मरुताम् । उग्रा । नप्ति: ॥१.१०॥

    अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 10

    टिप्पणीः - १०−(स्तनयित्नुः) अ० १।—१३।१। मेघशब्द इव (ते) तव (वाक्) मधुकशा (प्रजापते) हे प्रजारक्षक परमात्मन् (वृषा) अ० १।१२।१। ऐश्वर्यवान् (शुष्मम्) बलम्-निघ० २।९। (क्षिपसि) प्रसारयसि (भूम्याम्) (अधि) अधिकृत्य। अन्यत् पूर्ववत्-म० ™३ ॥

    इस भाष्य को एडिट करें
    Top