Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 1
    सूक्त - अथर्वा देवता - मधु, अश्विनौ छन्दः - त्रिष्टुप् सूक्तम् - मधु विद्या सूक्त

    दि॒वस्पृ॑थि॒व्या अ॒न्तरि॑क्षात्समु॒द्राद॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे। तां चा॑यि॒त्वामृतं॒ वसा॑नां हृ॒द्भिः प्र॒जाः प्रति॑ नन्दन्ति॒ सर्वाः॑ ॥

    स्वर सहित पद पाठ

    दि॒व: । पृ॒थि॒व्या: । अ॒न्तरि॑क्षात् । स॒मु॒द्रात् । अ॒ग्ने: । वाता॑त् । म॒धु॒ऽक॒शा। हि । ज॒ज्ञे । ताम् । चा॒यि॒त्वा । अ॒मृत॑म् । वसा॑नाम् । हृ॒त्ऽभि: । प्र॒ऽजा: । प्रत‍ि॑ । न॒न्द॒न्ति॒ । सर्वा॑: ॥१.१॥


    स्वर रहित मन्त्र

    दिवस्पृथिव्या अन्तरिक्षात्समुद्रादग्नेर्वातान्मधुकशा हि जज्ञे। तां चायित्वामृतं वसानां हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥

    स्वर रहित पद पाठ

    दिव: । पृथिव्या: । अन्तरिक्षात् । समुद्रात् । अग्ने: । वातात् । मधुऽकशा। हि । जज्ञे । ताम् । चायित्वा । अमृतम् । वसानाम् । हृत्ऽभि: । प्रऽजा: । प्रत‍ि । नन्दन्ति । सर्वा: ॥१.१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 1

    टिप्पणीः - १−(दिवः) सूर्यात् (पृथिव्याः) भूमेः (अन्तरिक्षात्) मध्यलोकात् (समुद्रात्) जलौघात् (अग्नेः) पावकात् (वातात्) वायोः (मधुकशा) फलिपाटिनमिमनि०। उ० १।१८। मन ज्ञाने-उ, नस्य धः+कश गतिशासनयोः-पचाद्यच्, टाप्। कशा=वाक्-निघ० १।११। ज्ञानवाणी। मधुविद्या वेदवाणी (हि) अवधारणे (जज्ञे) प्रादुर्बभूव (ताम्) मधुकशाम् (चायित्वा) पूजयित्वा (अमृतम्) अमरणम्। पुरुषार्थम् (वसानाम्) आच्छादयन्तीम्। धारयन्तीम् (हृद्भिः) हृदयैः (प्रजाः) जीवजन्तवः (प्रति) प्रत्यक्षम् (नन्दन्ति) हर्षन्ति (सर्वाः) समस्ताः ॥

    इस भाष्य को एडिट करें
    Top